________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥६१॥
अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे क्लिश्यते निजकर्मभिः ।। २३१ ।। दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने । बम्प्रेमीत्येक एवासौ जन्तुः कर्मवशीकृतः ।। २३२ ॥ इह जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायश्चेत्सुखदुःखानुभूतिदम् ॥ २३३ ॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात्सम्फेटमिलितः कथम् ॥ २३४ ॥ धर्मा - Sधर्मौ समासन्नौ सहायाविति चेन्मतिः । नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ।। २३५ ।। तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभाशुभे । जन्तुर्वेदयते चैतदनुरुपे शुभाशुभे ॥ २३६ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ।। २३७ ॥ यद्दुःखं भवसम्बन्धि यत्सुखं मोक्षसम्भवम् । एक एवोपभुक्ते तन्न सहायोऽस्ति कश्चन ॥ २३८ ॥ यथा चैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ।। २३९ ॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥ २४० ॥ तत्सांसारिकसम्बन्धं विहायैकाकिना सता । यतितव्यं हि मोक्षाय शाश्वतानन्दशर्मणे ।। २४१ ॥ तां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवस्तदा । नरा नार्यश्च निःसङ्गीभूयोपाददिरे व्रतम् ॥ २४२ ॥ चमराद्या गणभृतोऽभूवन् शतमनुत्तमाः । ते भर्तुस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् ॥ २४३ ॥ पूर्णायामादिपौरुष्यां व्यसृजद्देशनां विभुः । चक्रे स्वाम्यङ्घ्रिपीठस्थो देशनां गणभृद्वरः ।। २४४ ॥
१ विस्तृते । २ पुनःपुनः भ्रमति । ३ मार्गे मिलित इव । * सहाय्यस्तु सुख° । सहास्त्वे त त् सुख' ।
तृतीयं पर्व
तृतीयः
सर्गः
श्रीसुमतिजिनचरितम् ।
देशना ।
।। ६१ ।।