________________
तृतीयं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥६०॥
सर्गः
श्रीसुमतिजिनचरितम् ।
PASARASHASARASHRASHRSHASHRS
“तीर्थाय नम” इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः । प्राङ्मुखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ॥२१६ ।। सोऽप्यस्थाद्यथास्थानं ससुरासुरमानुषः । नमस्कृत्य जगन्नाथं वज्रभृच्चैवमस्तवीत् ॥ २१७ ॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैदलैः । त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ।। २१८ ॥ आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुदधनीः सुमनसो देशनोयां किरन्ति ते ॥२१९ ॥ मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षोद्गीवैर्मृगैरपि ॥२२० ।। तवेन्दुधामधवला चकास्ति चमरावली । हंसालिरिव वक्त्राब्जपरिचर्यापरायणा ।। २२१ ॥ मृगेन्द्रासनमारुढे त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति मृगेन्द्रमिव सेवितुम् ।। २२२ ॥ भाँसां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामिव शां ददासि परमां मुंदम् ।। २२३ ।। दुन्दुभिर्विश्वविश्वेश! पुरो व्योनि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ।। २२४ ॥ तवोर्ध्वमूर्ध्वपुण्यर्द्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिसशिनी ।। २२५ ।। . एतां चमत्कारकरी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के 6ष्ट्वा नाथ ! मिथ्याशोऽपि हि ॥२२६ ॥ स्तुत्वैवं विरते शक्रे भगवान् सुमतिप्रभुः । सर्वभाषानुगामिन्या प्रारेभे देशनां गिरा ॥२२७ ॥ कृत्याकृत्यपरिज्ञानयोग्यतामभ्युपेयुषा । इह स्वकार्यमूढेन न स्थातव्यं शरीरिणा ॥२२८ ।।। पुत्रमित्रकलत्रादेः शरीरस्यापि सक्रिया । परकार्यमिदं सर्वं न स्वकार्य मनागपि ।। २२९ ।। एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ।। २३० ।।
१ प्रमरशब्दैः ।२ कंपमानैः । ३ देवाः । ४ जानुप्रमाणाः । ५ पुष्पाणि । ६ चंद्रज्योत्सनावत्धवला । ७ मामण्डलेनेत्यर्थः । ८ हर्षम् । ९ पुण्यसमृद्धिकमसशी । १० म्रियते ।
RASHRSHAHARASASHARE
देशना।
।।६० ।।