________________
त्रिषष्टिशलाकापुरुषचरिते
॥५९॥
तृतीयं पर्व तृतीयः
सर्गः
| श्रीसुमति|जिनचरितम् ।
जन्मतः पूर्वलक्षेषु गतेषु दशसु प्रभुः । भूभुजाऽप्यर्थितोऽत्यर्थ राज्यभारमुपाददे ॥२०१ ।। एकोनत्रिंशतं पूर्वलक्षाः सद्वादशाङ्गिकाः । राज्येऽनैषीत्सुखं स्वामी वैजयन्त इव स्थितः ॥ २०२ ।। स्वयम्बुद्धो बोधितश्च ततो लोकान्तिकामरैः । दीक्षेच्छुर्वार्षिकं दानमदत्त सुमतिः प्रभुः ।। २०३ ।।. अन्ते वार्षिकदानस्य वासवैश्चलितासनैः । दीक्षाभिषेको विदधे स्वामिनः पार्थिवैरपि ॥२०४ ।। अथाभयकरां नामाध्यारुह्य शिबिकां विभुः । सुरासुरनृपोपेतः सहस्राम्रवणं ययौ ॥२०५ ॥ वैशाखसितनवम्यां पूर्वाह्ने स मघासु भे । प्राव्राजीन्नित्यभक्तेन सहस्रेण नृपैः सह ॥ २०६ ॥ उत्पेदे स्वामिनो ज्ञानं मनःपर्ययसंज्ञकम् । अनुजन्मेव दीक्षायाः प्रियमित्रमिवाथवा ॥२०७ ।। दिने द्वितीये विजयपुरे पद्मस्य भूपतेः । सेदने विदधे स्वामी परमान्नेन पारणम् ।।२०८ ॥ वसुधारादीनि पञ्चाद्भूतदिव्यानि चक्रिरे । तत्र देवा रत्नपीठं त्वर्चायै पद्मपार्थिवः ।। २०९ ।। विविधाभिग्रहधरः सहमानः परीषहान् । वर्षाणि विंशति स्वामी विजहार ततो महीम् ।। २१० ॥ ग्रामाकरप्रभृतिषु विहरन् प्रभुरन्यदा । सहस्राम्रवणं दीक्षाग्रहणस्थानमाययौ ।। २११ ।। प्रियङ्गुमूले ध्यानस्थस्यापूर्वकरणाप्रभोः । क्षपकश्रेण्यारुढस्य घातिकर्माणि तुत्रुटः ।। २१२ ।। चैत्रस्य शुक्लैकादश्यां मघास्थे च निशाकरे । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् ॥२१३ ॥ तज्ज्ञात्वाऽऽसनकम्पेनाऽऽगत्येन्द्राः ससुराऽसुराः । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥२१४ ॥ तत्र प्रविश्य प्रारद्वारा प्रदक्षिण्यकृतप्रभुः । धनुःषोडशशत्यग्रक्रोशोच्चं चैत्यपादपम् ।। २१५ ।। १ कनीयान् माते । २ गृहे । * ° तपञ्चयां ।
दीक्षा | केवलज्ञानं च।
।। ५९ ।।