________________
त्रिषष्टि
शलाका
पुरुषचरि
114211
देव ! त्वज्जन्मकल्याणेनापि कल्याणभाग् मही । किं पुनः पादकमलैर्यत्र त्वं विहरिष्यसे ।। १८७ ॥ त्वद्दर्शनसुखप्राप्त्या कृतकृत्या ध्शोऽधुना । कृतार्थाः पाणयश्चैते भगवन् ! पूजितोऽसि यैः ॥ १८८ ॥ जिननाथ ! तव स्नात्रचर्चाऽर्चादिमहोत्सवः । मन्मनोरथचैत्यस्य चिरात् कलशतां ययौ ।। १८९ ॥ जगन्नाथ ! प्रशंसामि संसारमपि सम्प्रति । यत्र त्वद्दर्शनं देव मुक्तेरेकं निबन्धनम् ।। १९० ।। उर्मयोऽपि हि गण्यन्ते स्वयम्भूरमणोदधेः । तवातिशयपात्रस्य न पुनर्मादृशैर्गुणाः ।। १९१ ।। धर्मैकमण्डपस्तम्भ ! जगदुद्योतभास्कर ! | कृपावल्लीमहावृक्ष ! रक्ष विश्वं जगत्पते ! ॥। १९२ ॥ निर्वृतेः संवृतद्वारसमुद्घाटनकुञ्चिका । धन्यैः शरीरिभिर्देव ! श्रोष्यते तव देशना ।। १९३ ।। मन्मनस्युज्ज्वलादर्शसन्निभे भुवनेश्वर ! । त्वन्मूर्त्तिर्नित्यसङक्रान्ता भूयान्निर्वृतिकारणम् ॥ १९४ ॥ इति स्तुत्वा हरिर्नाथमादायोत्प्लुत्य च क्षणात् । मङ्गलास्वामिनीपार्श्वे मुक्त्वा च स्वाश्रयं ययौ ॥ १९५ ।। जनन्यास्तत्र गर्भस्थे यदभूच्छोभना मतिः । स्वामिनो नाम सुमतिरित्यकार्षीत् पिता ततः । १९६ ॥ धात्रीभिरिन्द्रादिष्टाभिर्लाल्यमानो जगत्पतिः । शैशवं व्यतिचक्राम प्रतिपेदे च यौवनम् ॥ १९७ ॥ धनुःशतत्रयोत्तुङ्गः पीनेस्कन्धो बभौ विभुः । आजानुलम्बिदोः शाखः कल्पशाखीव जङ्गमः ॥ १९८ ॥ स्वामिनः स्वच्छलावण्यकल्लोलिन्यां निरन्तरम् । ललनानां लुलन्ति स्म ध्शः शफरिका इव । १९९ ॥ भोग्यं कर्म निजं जानन् पित्रोरप्युपरोधतः । राज्ञां कन्याश्चारुरुपाः पर्यणैषीदथ प्रभुः ।। २०० ।।
१ मम मनोरथ एव चैत्यं तस्य । २ संवृतद्वारस्योद्घाटने कुचिकेव कुचिका । ३ इन्द्रः । ४ बाल्यम् । ५ पीनौ पुष्टौ स्कंधौ यस्य । ६ जानुपर्यतं लंबमाने दोषी हस्तावेव शाखे यस्य । ७ मत्स्याः । ८ आग्रहात् ।
तृतीयं पर्व
तृतीयः
सर्गः
श्रीसुमति
जिनचरितम् ।
विवाहः ।
।। ५८ ।।