Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 332
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६८॥ तृतीयं पर्व चतुर्थः सर्गः श्रीपद्मप्रभजिनचरितम् । तित्यक्षरपि संसार स्वामी लोकानुवर्तनात् । मातापित्रनुरोधाच्च चक्रे दारपरिग्रहम् ।। ५४ ।। जन्मतः पूर्वलक्षेषु गतेष्वर्धाष्टमेष्वथ । उपरोधात् पितुः स्वामी राज्यभारमुपाददे ॥ ५५ ॥ राज्यं च पालयन सार्धा पूर्वलक्षैकविंशतिम् । तथा षोडश पूर्वाङ्गाण्यत्यक्रामज्जगत्पतिः ।। ५६ ।। भवपारं जिगमिषुः स्वामी लोकान्तिकामरैः । दीक्षायै प्रेरितो गत्यै पथिकः शकुनैरिव ।। ५७ ।। ददौ च वार्षिकं दानं ददतश्च प्रभोर्वसु । कुबेरप्रेरिताः सन्तो जृम्भकाः पर्यपूरयन् ॥ ५८ ॥ अथेन्द्रभूपैर्विहिताभिषेकः शिबिकां प्रभुः । आरुह्य निर्वृतिकरां सहस्राम्रवणं ययौ ॥ ५९ ॥ चित्रायां कार्तिक कृष्णत्रयोदश्यां च षष्ठकृत् । समं राजसहस्रेणापराह्ने प्राव्रजत् प्रभुः ।। ६०॥ द्वितीयदिवसे स्वामी पुरे ब्रह्मस्थलेऽकरोत् । पारणं परमान्नेन सोमदेवनृपौकसि ।। ६१ ॥ अमरा विदधुस्तत्र पञ्चदिव्याद्भुतान्यथ । स तु चक्रे नृपो रत्नपीठं यत्र स्थितो विभुः ।। ६२ ।। विजहार च षण्मासांश्छद्मस्थः परमेश्वरः । आगाद् भूयः सहस्राम्रवणं दीक्षकसाक्षिकम् ।। ६३ ।। षष्ठेन प्रतिमास्थस्य विभोर्वटतरोस्तले । प्रणेशु_तिकर्माणि वातोधूताभ्रजालवत् ।।६४ ॥ ततश्चैत्रस्य राकायां चन्द्रे चित्रामुपेयुषि । अम्लानं केवलज्ञानमभूत् पद्मप्रभप्रभोः ॥ ६५ ॥ सुरासुरेन्द्राः समवसरणं तत्र चक्रिरे । प्रारद्वारा प्रविवेशाथ तत्र त्रिभुवनेश्वरः ।।६६ ॥ सार्धक्रोशोन्नतं चैत्यपादपं परमेश्वरः । तत्र प्रदक्षिणीचक्रे तमिव त्रिदिवेश्वरः ।। ६७ ॥ "तीर्थाय नम" इत्येवमुच्चैरुच्चारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत्प्रभुः ।।६८॥ १ त्यक्तुमिच्छुः । २ आग्रहात् । ३ सुरविशेषाः । ४ सुखकर वनविशेषणमिदम् । ५ वायुनिरस्तमेघसमूहवत् । ६ शुद्धं । * कातिव' । 'मेषु च । ज्यं प्रपालयन् सार्धपू। दीक्षा केवलज्ञानं च। ।।६८ ॥

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384