Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ७०॥ चतुर्थः सर्गः श्रीपद्मप्रभ| जिनचरितम् । श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ।। ८३ ॥ न याति कतमा योनि कतमा वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ।। ८४ ॥ समस्तलोकाकाशेऽपि नानारुपैः स्वकर्मतः ! वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ।। ८५ ।। संसारिणश्चतुर्भेदाः श्वनितिर्यग्नरामराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ।। ८६ ॥ आद्येषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ।। ८७ ॥ नरकेषूष्णशीतेषु चेत्पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ।। ८८ ॥ उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते। इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ।। ८९ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलोकिका ।। ९० ।। गृहीत्वा पाणिपादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ।। ९१ ।। दारुदारं विदार्यन्ते दारुणैः कटुः क्वचित् । तिलपेशं च पिष्यन्ते चित्रयन्त्रैः क्वचित्पुनः ॥ ९२ ॥ पिपासार्ताः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वरोककाः ॥९३ ॥ छायाभिकाडिक्षणः क्षिप्रमसिपत्रवनं गताः । यत्र शस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ।।९४ ।। संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायःपुत्रिकाः क्वापि स्मारितान्यवधूरतम् ।।९५ ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपुः ॥ ९६ ॥ १ वेदज्ञब्राह्मणः । २ चांडालः ।३ भाटकरुपवेतनेन गृहीतं गृहम् । ४ नारकी । ५ बहूनि लघूनि छिद्राणि यस्मिन् तेन लघुच्छिद्रेण साधनेन भाषायाम् 'जतरहो' । ६ शलाकिका भाषायाम् 'सली' ७ काष्ठदारणसशम् । ८ करपत्रैः । ९ दीनाः । १० मदिरासक्तत्वं । * पुनस्तत्रत्र । SARASHASARAS | देशना तत्र च चतुर्गतिस्वरुप वर्णनम् । ॥७० ॥ חוק ו

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384