Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 336
________________ त्रिषष्टिशलाका पुरुषचरि ।। ७२ ।। सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ ११२ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदानुभवन्ति क्लेशसन्ततिम् ॥ ११३ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ।। ११४ ।। शङखादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ।। ११५ ॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदीमत्कुणादयः । विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ।। ११६ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मध्यन्ते चासनादिभिः ।। ११७ ॥ चतुरिन्द्रियताभाजः सरैघाभ्रमरादयः । मधुभक्षैर्विराध्यन्ते यष्टिलोष्टादिताडनैः ॥ ११८ ॥ ताड्यन्ते तालवृन्ताद्यैर्द्राग्दंशमशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटोदयः ॥ ११९ ॥ पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योऽन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बक़ादिभिः ।। १२० ॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपाच्यन्ते निगाल्यन्ते वसार्थिभिः ।। १२१ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मार्यन्ते मांसकाङ्क्षिभिः ।। १२२ ।। मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ।। १२३ ।। क्षुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कुशप्रतोदैश्च वेदनां प्रसहन्त्यमी ।। १२४ ।। खेचरास्तित्तिरिशुककपोतचटकादयः । श्येनसिञ्चानगृध्राद्यैर्ग्रस्यन्ते मांसगृध्नुभिः ।। १२५ ।। १ वायुभिः । २ यूकामत्कुणादयः । ३ मधुमक्षिकाः । ४ मधुमक्षकैः पुरुषैः । ५ मर्कट ऊर्णनाभः । ६ शूलेन संस्कृतं मांसं भटित्रं तस्य भावस्तत्ताम् । ७ खादिभिः" इति पाठांतरम् । ८ अश्वताडनी कशा, वृषताडनः प्रतोदः । ९ मांसलोलुपैः । * मर्य्य [र्ध] न्ते । तृतीयं पर्व चतुर्थः सर्गः श्रीपद्मप्रभ जिनचरितम् । तिर्यग्गति स्वरुपम् । ।। ७२ ।।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384