Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७७॥
बिभ्रत्पाणी नकुलाऽक्षसूत्रिणौ दक्षिणेतरौ । सदा सन्निधिवर्त्यासीद् भर्तुः शासनदेवता ॥ १८१ ॥
॥ युग्मम् ॥
तथोत्पन्नाऽच्युता नाम श्यामाङ्गी नरवाहना । बिभ्राणा दक्षिणौ बाहुदण्डौ वरदपाशिनौ ।। १८२ ॥ वामौ च कार्मुकधराभयदौ बिभ्रती भुजौ । पद्मप्रभजिनेन्द्रस्याभवच्छासनदेवता ।। १८३ ।। अमुक्तसन्निधिस्ताभ्यां विश्वानुग्रहकाम्यया । विजहार जगत्स्वामी ग्रामाकरपुरादिषु ।। १८४ ।। साधूनां त्रीणि लक्षाणि सहस्रास्त्रिंशदेव च । साध्वीनां च चतुर्लक्षी सहस्राणि च विंशतिः ।। १८५ ।। चतुर्दशपूर्वभृतां द्वे सहस्रे शतत्रयम् । अवधिज्ञानवतां च सहस्राणि पुनर्दश ।। १८६ ।। मनःपर्ययिणां त्रीणि शतान्ययुतमेव च । सहस्राणि द्वादश तु केवलज्ञानशालिनाम् ।। १८७ ।। वैक्रियलब्धिसहस्राः षोडशाष्टोत्तरं शतम् । वादलब्धिधराणां तु सहस्रा नव षट्शती ।। १८८ ।। श्रावकाणामुभे लक्षे षट्सप्ततिसहस्यपि । श्राविकाणां पुनः पञ्च लक्षाः पञ्च सहस्यपि ।। १८९ ।। परिवारोऽभवद् भर्तुः केवलज्ञानकालतः । षण्मास्या षोडशाङग्योनं पूर्वलक्षं विहारिणः ।। १९० ॥ मोक्षकालमथासन्नं विदित्वा परमेश्वरः । सम्मेताद्रिं जगामाथानशनं मासिकं व्यधात् ।। १९१ ।। मार्गशीर्षे च कृष्णैकादश्यां चित्रास्थिते विधौ । क्षीणशेषचतुष्कर्मा सिद्धानन्तचतुष्टयः ।। १९२ ।। मुनीनामनशनिनां शतैस्त्र्यग्रैः सहाष्टभिः । ध्यानाच्चतुर्थाच्चतुर्थं पुमर्थमगमत्प्रभुः ।। १९३ ।। ।। युग्मम् ।। १ शुक्लध्यानात् । २ मोक्षम् । * ° पूर्वधरा द्वे ।
तृतीयं पर्व
चतुर्थः सर्गः
श्रीपद्मप्रभ
जिनचरितम् ।
परिवारः
निर्वाणं च ।
।। ७७ ।।

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384