Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 323
________________ त्रिषष्टिशलाकापुरुषचरिते ॥५९॥ तृतीयं पर्व तृतीयः सर्गः | श्रीसुमति|जिनचरितम् । जन्मतः पूर्वलक्षेषु गतेषु दशसु प्रभुः । भूभुजाऽप्यर्थितोऽत्यर्थ राज्यभारमुपाददे ॥२०१ ।। एकोनत्रिंशतं पूर्वलक्षाः सद्वादशाङ्गिकाः । राज्येऽनैषीत्सुखं स्वामी वैजयन्त इव स्थितः ॥ २०२ ।। स्वयम्बुद्धो बोधितश्च ततो लोकान्तिकामरैः । दीक्षेच्छुर्वार्षिकं दानमदत्त सुमतिः प्रभुः ।। २०३ ।।. अन्ते वार्षिकदानस्य वासवैश्चलितासनैः । दीक्षाभिषेको विदधे स्वामिनः पार्थिवैरपि ॥२०४ ।। अथाभयकरां नामाध्यारुह्य शिबिकां विभुः । सुरासुरनृपोपेतः सहस्राम्रवणं ययौ ॥२०५ ॥ वैशाखसितनवम्यां पूर्वाह्ने स मघासु भे । प्राव्राजीन्नित्यभक्तेन सहस्रेण नृपैः सह ॥ २०६ ॥ उत्पेदे स्वामिनो ज्ञानं मनःपर्ययसंज्ञकम् । अनुजन्मेव दीक्षायाः प्रियमित्रमिवाथवा ॥२०७ ।। दिने द्वितीये विजयपुरे पद्मस्य भूपतेः । सेदने विदधे स्वामी परमान्नेन पारणम् ।।२०८ ॥ वसुधारादीनि पञ्चाद्भूतदिव्यानि चक्रिरे । तत्र देवा रत्नपीठं त्वर्चायै पद्मपार्थिवः ।। २०९ ।। विविधाभिग्रहधरः सहमानः परीषहान् । वर्षाणि विंशति स्वामी विजहार ततो महीम् ।। २१० ॥ ग्रामाकरप्रभृतिषु विहरन् प्रभुरन्यदा । सहस्राम्रवणं दीक्षाग्रहणस्थानमाययौ ।। २११ ।। प्रियङ्गुमूले ध्यानस्थस्यापूर्वकरणाप्रभोः । क्षपकश्रेण्यारुढस्य घातिकर्माणि तुत्रुटः ।। २१२ ।। चैत्रस्य शुक्लैकादश्यां मघास्थे च निशाकरे । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् ॥२१३ ॥ तज्ज्ञात्वाऽऽसनकम्पेनाऽऽगत्येन्द्राः ससुराऽसुराः । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥२१४ ॥ तत्र प्रविश्य प्रारद्वारा प्रदक्षिण्यकृतप्रभुः । धनुःषोडशशत्यग्रक्रोशोच्चं चैत्यपादपम् ।। २१५ ।। १ कनीयान् माते । २ गृहे । * ° तपञ्चयां । दीक्षा | केवलज्ञानं च। ।। ५९ ।।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384