Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥५७॥
तृतीयः
सर्गः श्रीसुमति
जिन
चरितम् ।
सुमति
ततश्च मङ्गलादेवी निर्णीयैवमभाषत । कालक्षेपासहत्वेन नूनमस्या अयं सुतः ।। १७२ ॥ विदधात्युभयाधीने परपुत्र-धने यतः । तेनेहकालहरणं विमाता सहते खलु ।। १७३ ।। आत्मपुत्रमुभयसात् क्रियमाणं तितिक्षितुम् । अक्षमा कालहरणं सहते जननी कथम् ।। १७४ ॥ भद्रे! न कालहरणं सहसे यन्मनागपि । तज्ज्ञातं तव पुत्रोऽयं गृहाण स्वगृहं व्रज ।। १७५ ।। एतस्यास्तनयो नायं पालितो लालितोऽपि हि । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः ॥ १७६ ॥ गर्भप्रभावाद् देव्यैवं विहिते तत्र निर्णये । विसिष्मिये स्मेरनेत्रा परिषत्सा चतुर्विधा ।। १७७ ॥ तदा ते जग्मतुर्वेश्म सूनोर्मातृविमातरौ । हृष्ट-म्लाने कमलिनी कुमुदिन्याविवौषसि ।। १७८ ॥ बाधामजनयन् देव्या लघूकरणवानिव । क्रमेण ववृधे गर्भः शुक्लपक्ष इवोडुपः ॥ १७९ ।। ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । वैशाखविशदाष्टम्यां मघास्थे च निशाकरे ।। १८० ॥ सुवर्णवर्णं क्रौञ्चाएं मृगाङ्कमिव पूर्वदिक् । मङ्गलास्वामिनी सूनुरत्नं प्रसुषुवे सुखम् ।। १८१ ॥ त्रैलोक्ये क्षणमुद्योतो नारकाणां क्षणं सुखम् । तदानीमभवच्छ्रकादीनां चासनकम्पनम् ।। १८२ ॥ दिक्कुमार्यस्तत्र चक्रुः सूतिकर्म यथोचितम् । शक्रश्च मङ्गलातल्पात् सुमेरावनयत् प्रभुम् ।। १८३ ॥ शक्राङ्कवर्तिनं नाथमिन्द्रास्तत्राच्युतादयः । त्रिषष्टिः स्नपयामासुस्तीर्थाम्भोभिर्यथाक्रमम् ॥ १८४ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयज्जलैः । विकृतस्फाटिकचतुर्वृषशृङ्गविनिर्गतैः ॥१८५ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणैः प्रभुम् । आरात्रिकं च प्रोत्तार्य शक्रो भक्त्यैवमस्तवीत् ।। १८६ ।। १ विकसितनयना । २ सभा ।३ प्रातःकाले । ४ चातुर्यवानिव । ५ शुक्लाष्टम्यां ।
* क्षत्रियपरिषद् गृहपति परिषद् ब्राह्मणपरिषद् ऋषिपरिषद् इत्येवं चतुर्विधा परिषत् सभा । राज प्रश्नियोपाङगे पृ. ३२१ कण्डिका १८४ (गूर्जर.) + शुभम् ।
जिनस्य
जन्म।
।। ५७ ॥

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384