Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 316
________________ त्रिषष्टिशलाका पुरुषचरिते 114211 नित्योद्युक्तो निर्ममश्चाकिञ्चनो गुणतत्परः । धारयेत्समितीः पञ्च तिस्रो गुप्तीश्च सर्वदा ।। १०० ।। मासादिकाश्च प्रतिमा विधातव्या यथाविधि । अभिग्रहा द्रव्यक्षेत्रकालभावानुगा अपि ।। १०१ ।। यावज्जीवितमस्नानं भूशय्या केशलुञ्चनम् । शरीरस्याप्रतिकर्म वासो गुरुकुले सदा ।। १०२ ।। परीषहोपसर्गाणां सहनं सानुमोदनम् । अष्टादशानां शीलाङ्गसहस्राणां च धारणम् ।। १०३ ।। प्रव्रज्यायामुपात्तायां सुकुमार ! कुमारक ! । तदेते लोहचणकाश्चर्वणीया निरन्तरम् ।। १०४ ।। बाहुभ्यां तरणीयोऽयमपारो मकराकैरः । निशातखङ्गधारासु कार्यं चङक्रमणं क्रमैः ।। १०५ ।। पोतव्या ज्वलनज्वाला मेरुस्तोल्यस्तुलाधृतः । उत्पूरा च प्रतिश्रोतस्तरणीया सरिद्वरा ।। १०६ ।। एकाकिना च जेतव्यं बलवद्विद्विषद्बलम् । विधातव्यो भ्रमच्चक्रे राधावेधश्च खल्वहो ! ।। १०७ ।। ॥ दशभिः कुलकम् ॥ महत् सत्वं, महद् धैर्यं महती धीर्महद् बलम् । प्रव्रज्याया उपात्ताया यदाऽऽजन्मापि पालनम् ॥ १०८ ॥ तदाकर्ण्य कुमारोऽपि ससौष्ठवमभाषत । पूज्यपादा एवमेतत् प्रव्रज्येयं यदीदृशी ।। १०९ ।। किन्तु विज्ञपयाम्येकमंशः शततमोऽपि किम् । भववाससमुत्थानां कष्टानामिह दृश्यते ।। ११० ।। तथाहि दूरे तिष्ठन्तु साक्षान्नरकवेदनाः । वचनैदुर्वचा एव दुःश्रवाः श्रवणैरपि ।। १११ ।। इहापि दृश्यते लोके तिरश्चामकृतागसाम् । नितान्तं बन्धनच्छेदतर्जनाद्यतिदुःसहम् ।। ११२ ।। १ असत्कारः । २ दुःखानामुपद्रवाणां च सहनम् । ३ समुद्रः । ४ पादैः । ५ पेया । ६ अग्निज्वाला । ७ निरपराधानाम् । * च्चक्ररा° । = चर्तुभिः कलापकम् । तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिन चरितम् । पूर्वभवचरितम् । ।। ५२ ।।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384