________________
त्रिषष्टिशलाकापुरुषचरिते IR४॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
सम्भव
भगवान् पारयामास यत्र तत्र तदैव हि । सुरेन्द्रदत्तो विदधे पीठं स्वर्णमणीमयम् ।। ३०९ ॥ त्रिसन्ध्यं पूजयामास तत्पीठं स्वामिपादवत् । सुरेन्द्रदत्तोऽसम्पूज्य बुभुजे जातुचिन्न हि ॥३१०॥ स्थानात्ततश्च भगवान् ग्रामे द्रोणमुखे पुरे । आकरे कपटे खेटे मडम्बे पत्तने वने ।।३११ ॥ नवे नवेऽनवस्थानो विविधाभिग्रहोद्यतः । द्वाविंशतिमनुद्विग्नः सहमानः परीषहान् ॥३१२ ॥ त्रिगुप्तिः पञ्चसमितिौनभाग्निर्भयः स्थिरः । एकाग्रग्विजहार वत्सराणि चतुर्दश ॥ ३१३ ॥ तदानीं च सहस्राम्रवणे सालतरोस्तले । द्वितीयशुक्लध्यानस्थस्तस्थौ प्रतिमया प्रभुः ।। ३१४ ॥ ध्यानान्तरे तिष्ठतश्च घातिकर्मचतुष्टयम् । सम्भवस्वामिनोऽत्रुट्यच्छाखिनः शुष्कपत्रवत् ।। ३१५ ।। ततश्च कार्तिके मासि पक्षे च धवलेतरे । पञ्चम्यां च तिथौ शीतरश्मौ मृगशिरःस्थिते ॥३१६ ।। स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् । सद्भाविभूतवस्तूनां दर्शनप्रतिभूरिव ॥३१७ ॥ परमाधार्मिककृत-क्षेत्रजाऽन्योऽन्यजन्मनः । दुःखस्यान्तात्क्षणं सौख्यं तदा निरयिणामभूत् ॥३१८ ।। सुरासुरेन्द्राः सर्वेऽपि तदानीं चलितासनाः । केवलज्ञानमहिम कर्तुं तत्र समाययुः ॥३१९ ।। ततः समवसरणकृते क्षामेकयोजनाम् । ममृजुर्वायुकुमाराः सिषिचुश्च पयोमुचः ॥३२०॥ बबन्धुळन्तरास्तां च स्वर्णरत्नाश्मभिः शुभैः । पञ्चवर्णानि पुष्पाणि विकिरन्ति स्म तत्र च ।। ३२१ ।।
१ चतुःशतग्रामेषु एकरम्यं ग्रामं द्रोणमुखं । २ कुनगरम् । ३ कृषीवलग्रामे । ४ धूलिप्राकारवेष्टितो ग्रामः मडंबः । ५ तिस्रः मनोवचनकायरुपाः गुप्तयः यस्य । ६ पंच ईर्यादयः समितयः यस्य । ७ वृक्षविशेषस्य । ८ केवलज्ञानं ।९ प्रतिभूः प्रतिनिधिभूतः भाषायां जामीनऽ इति ख्यातः । १० प्रकारत्रयोद्भवस्य । ११ महिमानं । १२ पृथ्वीं । * विविधदेशागत पण्यस्थानम् तच्च द्विधा जलपत्तनं स्थलपत्तनं वा । अथवा रत्नभूमि इति व्याख्या प्रज्ञप्तौ ॥-द्यमः । - नारकाणाम् ।
जिनस्य
केवलज्ञानम् ।
॥२४॥