________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२३॥
तवासिधारासोदर्यं जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय प्रभविष्णु जगत्प्रभो ! ॥ २९६ ॥ निर्ममोऽपि कृपालुस्त्वं निर्ग्रन्थोऽपि महर्द्धिकः । तेजस्व्यपि सदा सौम्यो धीरोऽपि भवकांतरः ॥ २९७ ॥ नितान्तं पूजनीयः स नाकिनां मानवोऽपि सन् । विहरन् कार्यसे येन पारणं विश्वतारर्णैम् ॥ २९८ ॥ महोपकारजनकं स्वामिन्नविरतस्य मे । औषधं व्याधितस्येव भवद्दर्शनमीदृशम् ।। २९९ ।। त्रिजगन्नाथ ! नार्थामि त्वयि भूयान्मनो मम । अनुस्यूतमिवोत्कीर्णमिव श्लिष्टमिवानिशम् ।। ३०० ॥ इति स्तुत्वा प्रभुं शक्रोऽन्येपीन्द्रा अच्युतादयः । स्थानं निजनिजं जग्मुः स्मरन्तः प्रभुसन्निधिम् ॥। ३०१ ।। द्वितीयस्मिन् दिने पुर्यां तस्यामेव जगत्पतिः । राज्ञः सुरेन्द्रदत्तस्य गृहेऽगात् पारणेच्छया ।। ३०२ ॥ सोऽभ्युत्थाय जगन्नाथं नमस्कृत्य च भक्तितः । परमान्नमुपादाय गृह्यतामित्यभाषत ।। ३०३ ।। एषणीयं कल्पनीयं प्रासुकं पायेसं च तत् । पाणिपात्रेण विश्वैकपात्रं प्रभुरुपाददे ।। ३०४ ॥ कल्याणकारणं दातुः प्राणमात्रकधारणम् । चुकार पारणं तेन स्वादागर्द्धमनाः प्रभुः ।। ३०५ ।। तदाभूहुन्दुभेर्नादो दिग्गजस्येव गर्जितम् । वसुधारापतद्दिव्या दिवः शीर्णेव कण्ठिका ।। ३०६ ।। नन्दनस्येव सर्वस्वं पुष्पवृष्टिः पपात खात् । गन्धाम्बुवृष्टिरभवद्दिग्दन्तिमदसोदरा ॥ ३०७ ॥ एकरश्मिघृतानीव चेलान्युच्चिक्षिपुः सुराः । अहो दानमहो दानं सुदानं चेति गीरभूत् ॥ ३०८ ॥
१ सदृशं । २ सशक्तिकम् । ३ निर्धनः । ४ भवात् कातरः भीरुः । ५ अत्यंत । ६ अनिवृत्तस्य । ७ व्याधिः संजातः यस्य तस्य । ८ याचे । ९ प्रोतं । १० खचितं । ११ प्रासुकं अचितं । १२ पयसा पक्कं क्षीरान्नं इत्यर्थः । १३ स्वादे अगर्द्धं अलुब्धं मनः यस्य सः । १४ वसु धनं । १५ आकाशात् । १६ चेलानि वस्त्राणि । * तारण ! इति पाठान्तरम् ।
तृतीयं पर्व
प्रथमः
सर्गः श्रीसम्भवजिन
चरितम् ।
शक्रकृतं
स्तवनम् ।
॥२३॥