________________
त्रिषष्टिशलाकापुरुषचारते IR२॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
तस्माच्च शिबिकारत्नात्पादपादिव बर्हिणः । दीक्षां हारमिवादित्सुरुत्ततार जगद्गुरुः ।। २८२ ।। मुमोच तत्र भगवान् माल्यालङ्करणादिकम् । इन्द्रन्यस्तं देवदूष्यं स्कन्धदेशे दधार च ।। २८३ ।। मार्गशीर्षस्य राकायां चन्द्रे मृगशिरःस्थिते । अह्नश्च पश्चिमे भागे कृतषष्ठतपास्ततः ।। २८४ ।। पञ्चभिर्मुष्टिभिर्मू| लीलयैव जगत्पतिः । उत्पाटयामास केशान् क्लेशान्पूर्वार्जितानिव ॥२८५ ।। ।। युग्मम् ।। शक्रस्तान् स्वामिनः केशान् स्वकीयवसनाञ्चले । शेषामिव प्रतीयेष क्षीरोदे चाक्षिपत्क्षणात् ।। २८६ ।। सुरासुरनृणामाशु तुमुलं मुष्टिसंज्ञया । निषिषेध द्वाःस्थ इव क्षीरोदादेत्य वासवः ।। २८७ ।। सावेद्यं योगेमखिलं प्रत्याख्यामीत्युदीरयन् । देवादिपर्षत्प्रत्यक्षं चारित्रं शिश्रिये प्रभुः ।। २८८ ॥ मनःपर्यवमुत्पेदे ज्ञानं तुर्य प्रभोरथ । ज्ञानस्य केवलस्येव सत्यवार उपस्थितः ।। २८९ ।। एकान्तदुःखदग्धानां प्रक्षिप्तानामिवानले । अपि नारकजन्तूनां तदा सुखमभूत्क्षणम् ।। २९० ॥ उत्सृज्य तृणवद् राज्यं सहस्रं पृथिवीभुजः । सह त्रैलोक्यनाथेन दीक्षामाददिरे स्वयम् ।। २९१ ।। अथ शक्रो नमस्कृत्य भगवन्तं कृताञ्जलिः । स्तोतुमेवं समारेभे भक्तिनिर्भरया गिरा ।। २९२ ॥ चतुर्ज्ञानधर! चतुर्यामधर्मप्रदर्शक!| चतुर्गतिप्राणिगणप्रीतिदायिञ्जय प्रभो! ।। २९३ ।। धन्यास्तास्त्रिजगन्नाथ ! भरतक्षेत्रभूमयः । तीर्थेश ! जङ्गमं तीर्थ यासु त्वं विहरिष्यसे ।।२९४ ।। अस्मिन् वसति संसारे संसारेण न लिप्यसे । पङ्कजं पङ्कजमपि याति पङ्किलतां न हि ।।२९५ ॥
१ पूर्णिमायां ।२ वस्त्रप्रान्तभागे ।३ कोलाहलम् । ४ द्वारपालः । ५ सदोष । ६ मनोवचनकायात्मकं । ७ देवादिसभासमक्षम् । ८ चतुर्थ । ९ पंकात् जातमपि । १० पंकयुक्तताम् ।
*SHARASHRSSSSHRSHAS
सम्भवजिनस्य दीक्षा।
MIR२॥