________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२१॥
सिद्धार्थां नामतः सांड्रिपीठसिंहासनां ततः । शिबिकां रचयाञ्चक्रुर्भूभुजः स्वामिनः कृते ।। २७१ ॥ अच्युतेन्द्रोप्याभियोग्यैः शिबिकां तां व्यकारयत् । वैमानिकविमानानामधिदेवीमिवोच्चकैः ।। २७२ ॥ स्वयंकृतां तां शिबिकां नरेन्द्रशिबिकान्तरे । श्रीचन्दनेऽगरुमिवाच्युतेन्द्रोऽन्तरभावयत् ।। २७३ ।। अथारुरोह भगवान् दत्तहस्तो बिडौजसा । शिबिकायां तत्र सिंहासनं हंस इवाम्बुजम् ॥ २७४ ॥ आता या इव महारथम् । अनन्तरं दिविषदो घनेवाता इवावनिम् ।। २७५ ।। ध्वनत्सु तूर्यवर्येषु समन्ताद्वारिदेष्विव । गन्धर्वेषु च कुर्वत्सु गीर्तिं कर्णसुधोपमाम् ॥ २७६ ॥ चित्राङ्गहाँरकरणं नृत्यन्तीष्वप्सरःसु च । पठत्सु बन्दिवृन्देषु ब्रह्मसु ब्रह्मगेषु च ॥ २७७ ॥ आशंसन्तीषु माङ्गल्यं कुलवृद्धासु चोच्चकैः । धवलांश्च कुलस्त्रीषु गायन्तीषु मनोरमान् ॥। २७८ ॥ अग्रे पृष्ठे पार्श्वयोश्चाश्वववल्गत्सु नाकिषु । ध्श्यमानः स्मैरनेत्रैर्दर्श्यमानोऽङ्गुलीदलैः ।। २७९ ।। स्थाने स्थाने नागराणां प्रतीच्छन्मङ्गलानि च । पीयूषष्टिभिरिव ग्भिरानन्दयन् जगत् ॥ २८० ॥ दोधूयमानचमरो धृतछ्त्रश्च नाकिभिः । श्रावस्तीमध्यतः स्वामी सहस्राम्रैवणं ययौ ।। २८१ ।। ॥ षड्भिः कुलकम् ॥
१ पादपीठसिंहासनाभ्यां सहितां । २ देवविशेषाः । ३ इन्द्रेण । ४ रथं वहन्ति रथ्याः अश्वाः । ५ तन्नामानो वायवः । ६ संगीतं । ७ चित्राणां अंगहाराणां अभिनयानां करणं यस्मिन्यथा तथा । ८ गीतविशेषान् । ९ देवेषु । १० विकसितचक्षुर्भिः । ११ अमृतदृष्टिभिः । १२ अतिशयेन कंप्यमाने चामरे यस्य । १३ तन्नामकमुद्यानम् । * मुदधु० ।
तृतीयं पर्व
प्रथमः
सर्गः श्रीसम्भव
जिन
चरितम् ।
सम्भवजिनस्य दीक्षा ।
॥२१॥