________________
त्रिषष्टिशलाकापुरुषचरिते IR०||
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
स्वामी कोटिं साष्टलक्षां हाटकस्यान्वहं ददौ । अर्थिनस्तावतोऽर्थस्य भवन्ति ददतोऽर्हतः ।। २५८ ॥ कोटीशतत्रयं स्वर्णस्याष्टाशीतिश्च कोटयः । लक्षाशीतिश्च ददिरे स्वामिना वत्सरेण तु ।। २५९ ।। सांवत्सरिकदानान्ते वासवाश्चलितासनाः । सान्तःपुरपरीवाराः स्वामिवेश्म समाययुः ।। २६० ॥ ततः प्रदक्षिणीकृत्य स्वामिवेश्म विमानतः । अवतेरुश्चास्पृशन्तः पृथिवीं चतुरडलम् ।। २६१ ।। धुसन्नाथा जगन्नाथमथो विनयशालिनः । सर्वे प्रदक्षिणीचक्रुर्नमश्चक्रुश्च भक्तितः ॥ २६२ ॥ जन्माभिषेकवद् भर्तुरभिषेकमथाच्युतः । आभियोग्याहृतैस्तीर्थाम्भस्कुम्मैर्विधिवव्यधात् ।। २६३ ।। क्रमेण तद्वदन्येऽपि विदधुर्विबुधाधिपाः । दीक्षाकल्याणकस्नात्रं भक्तिकल्या जगत्पतेः ॥२६४ ॥ सुरासुरेन्द्रवद् भक्त्या नरेन्द्रा अपि तत्क्षणम् । सम्भवस्वामिनश्चक्रुः पवित्रैः स्नात्रमम्बुभिः ।। २६५ ॥ वपुर्देवाधिदेवस्य देवदूष्यैर्दिवौकसः । ममृजुः स्नानतोयार्द्रमादर्शमिव काञ्चनम् ।। २६६ ।। गोशीर्षचन्दनेनाथ नाथं विलिलिपुः सुराः । दिव्यानि च दुकूलानि भक्तितः पर्यधापयन् ॥ २६७ ।। किरीटं मुनि सर्वस्वमिव वज्राकैरावनेः । कुण्डले कर्णयोरभ्रमुक्तामणिमये इव ॥२६८ ॥ कण्ठे हारं नीहाराद्रिभ्रश्यद्गङ्गानुहारकम् । केयूरकङ्कणान् बाह्नोः सूर्यज्योतिर्मयानिव ॥२६९ ॥ कुण्डलीभूतनालाभान् कटकान्पादपद्मयोः । एवं निदधिरे देवा भूषणानि जगद्विभोः ।। २७० ।।
॥त्रिभिर्विशेषकम् ।। १ घुसदां देवानां नाथाः इंद्राः । २ मुकुटम् । ३ वज्राणां आकरः खनिः यस्यां सा चासौ अवनिश्च तस्याः । ४ मेघमौक्तिकमणिप्रचुरे । ५ हिमगिरिपतगंगामनुकुर्वतम् । ६ अंगदकरभूषणानि । ७ रवितेजोव्याप्तान् ।* भक्तिचतुराः । * "नुकार' ।
सम्भवजिनस्य
दीक्षा।
॥२०॥