________________
त्रिषष्टिशलाकापुरुषचरिते ॥२५॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
श्वेतच्छत्रध्वजस्तम्भमकरास्यादिभूषितान् । प्रत्याशं चतुरस्तत्र तोरणांस्ते विचक्रिरे ।। ३२२ ।। रत्नपीठं विकृत्यान्तः परितस्तं विचक्रिरे । रौप्यं वप्रं भवनेशाः सौवर्णकपिशीर्षकम् ।। ३२३ ॥ ज्योतिष्का मध्यमं वप्रं सरत्नकपिशीर्षकम् । तापनीयं विदधिरे भूवधूवलयोपमम् ।। ३२४ ।। अथ रत्नमयं वप्रं माणिक्यकपिशीर्षकम् । तत्रोपरितनं चक्रुर्विमानपतयोऽमराः ।। ३२५ ।। बभूव प्रतिवप्रं च गोपुराणां चतुष्टयम् । द्वितीयवप्रे चैशान्यां देवेच्छन्दं व्यधुः सुराः ।। ३२६ ।। ऊर्ध्ववप्रान्तरावन्या मध्ये चैत्यतरुं व्यधुः । साष्टधन्वशतक्रोशद्वयोच्चं व्यन्तरास्ततः ।। ३२७ ॥ तस्याधो मणिभिर्बद्धे पीठे ते छन्दकं व्यधुः । तन्मध्ये प्राक् साङ्घ्रिपीठं रत्नसिंहासनं ततः ।। ३२८ ॥ छन्दकोपरि चक्रुश्च ते च्छत्रत्रितयं शुभम् । दधाते पाश्वयोर्यक्षौ चामरे चेन्दुपाण्डुरे ।। ३२९ ॥ चक्रे समवसृत्यग्रे धर्मचक्रं च भासुरं । व्यन्तरैर्धर्मचक्रित्वसूचकं परमेशितुः ॥३३० ॥ सुरैः संचार्यमाणेषु सौवर्णेष्वम्बुजन्मसु । नवस्वारोपयन्पादौ सुरकोटीभिरावृतः ॥३३१ ॥ प्रातः समवसरणं पूर्वद्वाराऽविशद्विभुः । त्रिः प्रदक्षिणयामास तत्र तं चैत्यपादपम् ॥ ३३२ ॥ नमस्तीर्थायेति जल्पंश्छन्दकान्तर्निवेशितम् । सिंहासनमथाध्यास्त प्राङ्मुखः परमेश्वरः ।। ३३३ ।। प्रभावात्स्वामिनः स्वामिप्रतिबिम्बानि चक्रिरे । रत्नसिंहासनस्थानि व्यन्तरा अन्यदिक्ष्वपि ॥३३४ ॥ शिरसः पश्चिमे भागेऽभवद् भामण्डलं प्रभोः । इन्द्रध्वजः पुरस्ताच्च दुन्दुभिश्चाध्वनद्दिवि ।। ३३५ ।।
१ प्रतिदिशं । २ कपिशीर्षकं प्राकाराग्रं भाषायां “कांगरा” इति प्रख्यातं । ३ सूर्यचंद्रादिदेवविशेषाः । ४ सुवर्णमयं । ५ पुरद्वाराणां । ६ विश्रामपीठम् । ७ छायार्थ वृक्षविशेष । ८ पूर्वद्वारा पूर्वद्वारेण ।
समवसरणरचनम् ।