________________
त्रिषष्टिशलाकापुरुषचरिते IR६॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भव
जिन
चरितम् ।
प्रविश्य प्रारद्वारार्हन्तं नत्वाग्नेय्यामुपाविशन् । साधवोऽथ वैमानिक्यः साध्व्यश्चोर्ध्वा वितष्ठिरे ॥३३६ ॥ अपारद्वारा प्रविश्यार्हत्पादान्नत्वा च नैर्ऋते । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तरस्त्रियः ।। ३३७ ॥ प्रत्यग्द्वारेण प्रविश्यार्हन्तं नत्वा मरुद्दिशि । तस्थुः क्रमाद्भवनेशज्योतिष्कव्यन्तराः सुराः ।। ३३८ ॥ उदग्द्वारा प्रविश्याथ जिनं नत्वा क्रमेण तु । वैमानिका नरा नार्य ऐशान्यामवतस्थिरे ॥ ३३९ ।। आधवप्रेऽवास्थितैवं श्रीमान् सङ्घश्चतुर्विधः । वप्रे द्वितीये तिर्यञ्चस्तृतीये वाहनानि च ॥ ३४० ।। अथ शक्रो नमस्कृत्य स्वामिनं रचिताञ्जलिः । इति प्रचक्रमे स्तोतुं वाचा भक्तिसनाथया ॥३४१ ॥ अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥ ३४२ ।। अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ।।३४३ ।। अचण्डवीरव्रतिना शमिना समवर्त्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ।। ३४४ ।। अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः ।।३४५ ॥ अनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ।।३४६ ॥ असङ्गस्य जिनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनस्तेऽस्मि किङ्करः ॥ ३४७ ॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्यचिन्तारले च त्वय्यात्मायं मयार्पितः ॥३४८ ।। फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किर्तव्यजडे मयि ।।३४९ ।।
१ चतुष्प्रकारः ।२ भक्तियुक्तया ।३ अनक्तं अभ्यंगरहितम् । ४ अमृजः मलापकर्षरहितः । ५ शरणे साधु ।६ रजोगुणरहिताय । ७ जलसेकवर्जितोऽपि फलैः सम्भृतः तस्मात् । पत्राधगलनाद् गुरूतमः तस्मात् ।।८ न अंकं त्रिशूलादि चिन्हं यस्य ।९ अवेष्टने । * श्वोद्धर्वमवस्थिताः संल. सङ्य. ।।.तु॥-म्बन्धिबा० ।
शक्रकृता स्तुतिः ।
M
॥२६॥