________________
त्रिषष्टिशलाकापुरुषचरिते ॥२७॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
स्तुत्वैवं विरते शक्रे विश्वस्योपचिकीर्षया । भगवान् सम्भवस्वामी विदधे देशनामिमां ।।३५० ।। अनित्यं सर्वमप्यस्मिन् संसारे वस्तु वस्तुतः । मुधासुखलवेनापि तत्र मूर्छा शरीरिणाम् ।।३५१ ॥ स्वतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः । कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ।।३५२ ॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भाणां का कथा तर्हि देहिनाम् ।।३५३ ॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चञ्चासि करोतु सः ।। ३५४ ।। न मन्त्रतन्त्रभैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ।। ३५५ ।। प्रवर्द्धमानं पुरुषं प्रथम ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो जन्म देहिनाम् ।। ३५६ ।। यद्यात्मानं विजानीयात्कृतान्तवशवर्तिनम् । को ग्रासमपि गृह्णीयात् ? पापकर्मसु का कथा ।। ३५७ ।। समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुबुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ।। ३५८ ।। आठ्यं निःस्वं नृपं रक्षं झं मूर्ख सज्जनं खलम् । अविशेषेण संहर्तुं समवर्ती प्रवर्तते ।। ३५९ ॥ न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु वास्ति न । दवाग्निवदरण्यानी विलुम्पत्यन्तको जनम् ।।३६० ॥ इदं तु मा स्म शङ्कध्वं कुशास्त्रैरपि मोहिताः । कुतोऽप्युपायतः कायो निरपोयो भवेदिति ।। ३६१ ।। ये मेरुं दण्डंसात्कर्तुं पृथ्वी वा छत्रसात्क्षमाः । तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥३६२ ।। आ कीटादा च देवेन्द्रात्प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित्कालवञ्चनम् ।।३६३ ।।
१ दंताः एव यंत्राणि तेषु तिष्ठंतीति । २ सगर्भाणां सशाम् । ३ पलालो घासः । ४ तृणनिर्मिते पुरुषे लोके 'चाडिओ' 1५ जलविकाराः भाषायां परपोय' इति ख्याताः । ६ निर्धनं ।७ पंडितं ८ महत्अरण्यं ।९ नाशरहितः । १० कृत्स्नः मेरुः दंडः संपद्यते इति दंडसात् । ११ समर्थाः । * ञ्चनाम् ।
सम्भव
जिनस्य
देशना।
SARASWASHRSSIRSARSHA
|॥२७॥