________________
त्रिषष्टिशलाकापुरुषचरिते ॥२८॥
तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् ।
पूर्वेषां चेत् क्वचित् कश्चिजीवन् श्यते कैश्चन । न्यायपथातीतमपि स्यात्तदा कालवञ्चनम् ।। ३६४ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बलरुपापहारिण्या जरसा जर्जरीभवत् ।। ३६५ ।। यौवने कामिनीभिर्ये काम्यन्ते कामलीलया । निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वार्द्धके ।।३६६ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद्याति क्षणमात्रेण निधनं धनिनां धनम् ॥३६७ ॥ उपमा न पदं किं स्यात्फेनबुबुदेविद्युता ? | धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ।। ३६८ ।। समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्जनैः । स्वस्य वान्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥३६९ ॥ ध्यायन्ननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ।। ३७० ॥ शरीरयौवनधनबान्धवादि न केवलम् । अनित्यं किन्तु भुवनमप्येतत्सचराचरम् ॥३७१ ॥ इत्यनित्यं विदन् सर्वं शरीरी निष्परिग्रहः । नित्याय नित्यसौख्याय पदाय प्रयतेत तत् ।। ३७२ ।। श्रुत्वा तां देशनां भर्तुः पादपद्मान्तिके ततः । नरा नार्यश्च बहवो दीक्षामाददिरे तदा ॥३७३ ॥ तदा चारुप्रभृतीनां गणभृन्नामकर्मणाम् । स्वाम्युद्दिदेश त्रिपदी स्थित्युत्पादव्ययात्मिकाम् ॥ ३७४ ॥ द्वयग्रं शतं गणधरास्ते त्रिपद्यनुसारतः । असूत्रयन् द्वादशांगी सचतुर्दशपूर्विकाम् ॥३७५ ॥ उत्थायादाय शक्रोपनीतं चूर्ण क्षिपन्प्रभुः । अनुयोगगणानुज्ञे तेषां द्रव्यादिभिर्ददौ ।। ३७६ ॥ वासान् सुरादयस्तेषु ध्वनद्दन्दुभि चिक्षिपुः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणभृतश्च ते ।। ३७७ ।। दिव्यसिंहासनं भूयोऽप्यध्याँस्य प्राङ्मुखो विभुः । अनुशिष्टिमयीं तेषां विदधे धर्मदेशनाम् ।। ३७८ ।।
१ नाशं । २ बुबुदो जलविकारः । ३ नाशयुक्ताः । ४ भित्तिःभंगेऽपि । ५ द्वौ अग्रे यस्य । ६ वासक्षेपान् । ७ ध्वन्तः दुंदुभयः यस्मिन्यथा तथा । * "घृताम् ।- प्राङ्मुखः प्रभुः ।
सम्भवजिनस्य देशना ।
IR८॥