Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 307
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ४३ ॥ वामौ च धारयन् बाहू नकुलाङ्कुशधारिणौ । सदा सन्निहिता भर्तुरभूच्छासनदेवता ॥ १६० ।। ॥ युग्मम् ॥ कालिका च तथोत्पन्ना श्यामवर्णाम्बुजासना । दक्षिणौ धारयन्ती तु भुजौ वरदपाशिनौ ।। १६१ ॥ नागाङ्कुशधरौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवा ।। १६२ ।। ।। युग्मम् ॥ ततः स्वाम्यप्यतिशयैश्चतुस्त्रिंशद्भिरन्वितः । व्यहरद् बोधयञ्जन्तून् ग्रामाकरपुरादिषु ।। १६३ ॥ साधुत्रिलक्षी साध्वीषट्लक्षी त्रिंशत्सहस्रयुक् । शतानि चाष्टनवतिरवधिज्ञानशालिनाम् ॥ १६४ ॥ सहस्रं पूर्विणां सार्धं मनः पर्ययिणां पुनः । एकादशसहस्राणि सपञ्चाशच्च षट्शती ।। १६५ ।। चतुर्दशसहस्राणि केवलज्ञानधारिणाम् । सहस्रं वैक्रियलब्धिमतामेकोनविंशतिः ।। १६६ ॥ एकादशसहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणामष्टाशीतिसहस्रयुक् ।। १६७ । श्राविकाणां पञ्चलक्षी सप्तविंशतिसहस्रयुक् । अजायन्त जगद्भर्तुरुर्व्यां विहरतः सतः ।। १६८ ॥ अष्टाङग्याष्टादशाब्द्योने पूर्वलक्षे च केवलात् । ज्ञात्वा निर्वाणकालं स्वं सम्मेताद्रिं ययौ प्रभुः ।। १६९ ॥ समं मुनिसहस्रेण प्रपन्नानशनो विभुः । मासं तस्थौ सुरैः सेन्द्रैः सेव्यमानो नृपैरपि ।। १७० ॥ शैलेशीध्यानमास्थाय भवोपग्राहिकर्मभित् । सिद्धानन्तचतुष्कः सन् भगवानभिनन्दनः ।। १७१ ॥ वैशाखस्य सिताष्टम्यां पुष्पस्थे रजनीकरे । समं मुनिसहस्रेणापुनरावृत्त्यगात् पदम् ॥ १७२ ॥ ॥ युग्मम् ॥ कौमारे पूर्वाणां लक्षाः सहार्धा द्वादशागमन् । लक्षाणि सार्धषट्त्रिंशद्राज्येऽष्टाङ्गयुतानि च ।। १७३ ।। अष्टाङ्गोनं पूर्वलक्षं प्रव्रज्यायामिति प्रभोः । पञ्चाशत्पूर्वलक्षाणि यावदायुरजायत ।। १७४ ।। १ अंबुजं कमलं आसनं यस्याः सा । २ पार्श्ववर्तिनी । ३ शुक्लाष्टम्यां । ४ न पुनः आवृत्तिः आगमनं यस्मात्तत् पदम् मोक्षाख्यम् । * प्लक्षे च के' । उन तृतीयं पर्व द्वितीयः सर्गः अभिनन्दन जिनचरितम् । परिवारः । ॥४३॥

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384