________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥ ४३ ॥
वामौ च धारयन् बाहू नकुलाङ्कुशधारिणौ । सदा सन्निहिता भर्तुरभूच्छासनदेवता ॥ १६० ।। ॥ युग्मम् ॥ कालिका च तथोत्पन्ना श्यामवर्णाम्बुजासना । दक्षिणौ धारयन्ती तु भुजौ वरदपाशिनौ ।। १६१ ॥ नागाङ्कुशधरौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवा ।। १६२ ।। ।। युग्मम् ॥ ततः स्वाम्यप्यतिशयैश्चतुस्त्रिंशद्भिरन्वितः । व्यहरद् बोधयञ्जन्तून् ग्रामाकरपुरादिषु ।। १६३ ॥ साधुत्रिलक्षी साध्वीषट्लक्षी त्रिंशत्सहस्रयुक् । शतानि चाष्टनवतिरवधिज्ञानशालिनाम् ॥ १६४ ॥ सहस्रं पूर्विणां सार्धं मनः पर्ययिणां पुनः । एकादशसहस्राणि सपञ्चाशच्च षट्शती ।। १६५ ।। चतुर्दशसहस्राणि केवलज्ञानधारिणाम् । सहस्रं वैक्रियलब्धिमतामेकोनविंशतिः ।। १६६ ॥ एकादशसहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणामष्टाशीतिसहस्रयुक् ।। १६७ । श्राविकाणां पञ्चलक्षी सप्तविंशतिसहस्रयुक् । अजायन्त जगद्भर्तुरुर्व्यां विहरतः सतः ।। १६८ ॥ अष्टाङग्याष्टादशाब्द्योने पूर्वलक्षे च केवलात् । ज्ञात्वा निर्वाणकालं स्वं सम्मेताद्रिं ययौ प्रभुः ।। १६९ ॥ समं मुनिसहस्रेण प्रपन्नानशनो विभुः । मासं तस्थौ सुरैः सेन्द्रैः सेव्यमानो नृपैरपि ।। १७० ॥ शैलेशीध्यानमास्थाय भवोपग्राहिकर्मभित् । सिद्धानन्तचतुष्कः सन् भगवानभिनन्दनः ।। १७१ ॥ वैशाखस्य सिताष्टम्यां पुष्पस्थे रजनीकरे । समं मुनिसहस्रेणापुनरावृत्त्यगात् पदम् ॥ १७२ ॥ ॥ युग्मम् ॥ कौमारे पूर्वाणां लक्षाः सहार्धा द्वादशागमन् । लक्षाणि सार्धषट्त्रिंशद्राज्येऽष्टाङ्गयुतानि च ।। १७३ ।। अष्टाङ्गोनं पूर्वलक्षं प्रव्रज्यायामिति प्रभोः । पञ्चाशत्पूर्वलक्षाणि यावदायुरजायत ।। १७४ ।।
१ अंबुजं कमलं आसनं यस्याः सा । २ पार्श्ववर्तिनी । ३ शुक्लाष्टम्यां । ४ न पुनः आवृत्तिः आगमनं यस्मात्तत् पदम् मोक्षाख्यम् । * प्लक्षे च के' ।
उन
तृतीयं पर्व द्वितीयः सर्गः
अभिनन्दन
जिनचरितम् ।
परिवारः ।
॥४३॥