________________
त्रिषष्टिशलाकापुरुषचरिते ॥४२॥
तृतीयं पर्व द्वितीयः सर्गः अभिनन्दनजिनचरितम् ।
यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ।। १४६ ॥ येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमभ्रूभङ्गमीतास्तेऽप्यास्ये निदधतेऽडलीः ।। १४७ ॥ मुनीनामप्यपापानामसिधारोपमैतैः । न शक्यते कृतान्तस्य प्रतिकतु कदाचन ।। १४८ ।। अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ।। १४९ ॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ १५० ॥ प्रव्रज्यालक्षणोपायमादायाक्षय्यशर्मणे । चतुर्थपुरुषार्थाय यतितव्यमहो ! ततः ।। १५१ ।। तया देशनया प्रायो नरा नार्यः प्रवव्रजुः । गणेशा वज्रनाभाद्याः षोडशाग्रमभूछतम् ।। १५२ ॥ अनुयोगगणानुज्ञे तेषां दत्वा यथाविधि । अनुशिष्टिमयीं धर्मदेशनां विदधे प्रभुः ।। १५३ ॥ जन्मव्ययध्रौव्यमयीं स्वाम्येभ्यस्त्रिपदी जगौ । जग्रन्थु‘दशाङ्गी ते तत्रिपद्यनुसारतः ।। १५४ ।। देशनां पूर्वपौरुष्यां व्यसृजत्स्वाम्यथो बलिम् । राजानीतं क्षिप्त्वा गृह्णन् देवा भूपा जनाः क्रमात् ।। १५५ ।। अथोत्तस्थौ जगन्नाथो मध्यवप्रमुपेत्य च । ईशानदिक्थिते देवच्छन्दके समुपाविशत् ॥ १५६ ॥ स्वाम्यघ्रिपीठस्थो वज्रनाभो गणधरो व्यधात् । लोकैः केवलिवज्ज्ञातो देशनां श्रुतकेवली ।। १५७ ॥ पूर्णद्वितीयपौरुष्यां व्यसृजत्सोऽपि देशनाम् । नत्वार्हन्तं ययुः स्वं स्वं स्थानं सर्वे सुरादयः ।। १५८ ॥ तीर्थे यक्षेश्वरस्तत्र श्यामो द्विरदवाहनः । दोर्दण्डौ दक्षिणौ बिभ्रन्मातुलिङ्गाक्षसूत्रिणौ ।। १५९ ॥
१ विद्वांसोऽपि । २ खड्गधारासघशैः । ३ यम एव रक्षः राक्षसः तेन । ४ मोक्षसुखाय । ५ स्वामी एम्यः गणधरेभ्यः । ६ गजवाहनः । * "दिक्स्थितो दे ।
देशना।
॥४२॥