________________
त्रिषष्टिशलाका
पुरुषचरिते
।।४१।।
संयतानि न चाक्षाणि नैवोच्छृङ्गेलितानि च । इति सम्यक् प्रतिपैदा त्वयेन्द्रियजयः कृतः ॥ १३१ ॥ योगस्याष्टाङ्गत्ता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ।। १३२ । विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यम दृष्टेऽपि स्वामिन्निदमलौकिकम् ।। १३३ ।। तथा परे न रज्यन्त उपकारपरे परे । यथापकारिणि भवानहो ! सर्वमलौकिकम् ॥ १३४ ॥ हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ? ।। १३५ । तथा समाधौ परमे त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति यथा न प्रतिपन्नवान् ॥ १३६ ॥ ध्याता ध्यानं तथा ध्येयं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः ।। १३७ ।। स्तुत्वैवं विरते शक्रे स्वामी गम्भीरया गिरा । आयोजनविसर्पिण्या प्रारेभे देशनामिति ।। १३८ ॥ संसारोऽयं विपत्खानिरस्मिन्निपततः सतः । पिता माता सुहृद्बन्धुरन्योऽपि शरणं न हि ।। १३९ ।। इन्द्रोपेन्द्रादयोऽप्यत्र यन्मृत्योर्याति गोचरम् । अहो तदन्तकात कः शरण्यः शरीरिणाम् ? ।। १४० ।। पितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नियते जन्तुः कर्मभिर्यमसद्मनि ।। १४१ ।। शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः ।। १४२ ॥ संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव शरणं नास्ति देहिनः ।। १४३ ।। अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागदैः । मृत्युञ्जयादिभिर्मन्त्रैस्त्राणं नैवास्तिं मृत्युतः ।। १४४ ।। खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत्कृष्यते राजा हठेन यमकिङ्करैः ।। १४५ ।।
१ नियमितानि । २ उद्धतानि । ३ प्रतिपादनं कुर्वता । ४ साहचर्यं । ५ अनुसरंतु । ६ योजनपर्यतं गामिन्या । ७ तस्य अन्तकस्य आतंको भयम् तस्मिन् । ८ जीवनप्रदैः । * °स्ति देहिन ।
तृतीयं पर्व द्वितीयः
सर्गः अभिनन्दन
जिनचरितम् ।
देशना ।
।।४१ ।।