________________
त्रिषष्टिशलाकापुरुषचारते ॥४०॥
तृतीयं पर्व द्वितीयः सर्गः अभिनन्दनजिनचरितम् ।
द्वितीयेऽहन्ययोध्यायामिन्द्रदत्तस्य भूभुजः । सदने विदधे स्वामी परमान्नेन पारणम् ।।११६ ॥ वसुधारा पुष्पवृष्टिर्वृष्टिर्गन्धोदकस्य च । खे दुन्दुभिध्वनिश्चलोत्क्षेपश्च विदधेऽमरैः ।। ११७॥ अहो दीनमहो दानं सुदानमिति चोच्चकैः । जुघुषे हर्षविवशैः सुरासुरनरैस्तदा ।। ११८ ॥ ततोऽन्यत्र ययौ स्वामी स्थाने च स्वामिपादयोः । रत्नपीठं व्यधादिन्द्रदत्तोऽर्चितुमनाः सदा ॥११९ ॥ छद्मस्थो व्यहरत्स्वामी सहमानः परीषहान् । अष्टादश समा यावद्विविधाभिग्रहोद्यतः ।। १२० ॥ विहरन्नन्यदा नाथः सहस्राम्रवणं ययौ । कृतषष्ठः प्रियालस्याधोऽस्थात्प्रतिमया ततः ।। १२१ ॥ द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति । पौषशुक्लचतुर्दश्यामभीचिस्थे निशाकरे ।। १२२ ॥ अमलं केवलज्ञानमाविरासीद् जगत्पतेः । नारकाणामपि बाधानिषेधनमहौषधम् ।। १२३ ॥ चतुःषष्टिरथैत्येन्द्रा विधिवद्विदधुः प्रभोः । ऊच्चैः समवसरणं देशे योजनमात्रके ॥ १२४ ।। देवैः संचार्यमाणेषु स्वब्जेषु क्रमो दधत् । स्वामी समवसरणं प्रागद्वारा प्राविशत्ततः ।। १२५ ॥ स धनुर्द्विशतीकं तु गव्यूतेद्वयमुच्छ्रितम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जिनेश्वरः ॥ १२६ ।। नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः । सिंहासनमलञ्चक्रे प्राङ्मुखः परमेश्वरः ॥ १२७ ॥ ततश्चतुर्विधः सङ्घः ससुरासुरमानुषः । सम्प्रविश्य यथाद्वारं यथास्थानमुपाविशत् ॥ १२८ ॥ भगवन्तं नमस्कृत्य शक्रो विरचिताञ्जलिः । रोमाञ्चितवपुः स्वामिस्तवनं प्रास्तवीदिति ।। १२९ ।। मनोवचःकायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ।। १३० ॥
१ चेलस्य वस्त्रस्योत्क्षेपः २ राजादनीवृक्षस्य ।३ सुवर्णकमलेषु । ४ पादौ । ५ क्रोशयुगलम् । ६ मनसः शल्यं । * °दानं महादानं । - ग्वलं सा । • उच्चैः घोषणा विहिता ।
केवलज्ञानम्।
॥४०॥