________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९॥
तृतीयं पर्व द्वितीयः सर्गः | अभिनन्दनजिनचरितम् ।
सार्धाः षट्त्रिंशतं पूर्वलक्षा अष्टाङ्गसंयुताः । निनाय राज्यं कुर्वाणो जगन्नाथोऽभिनन्दनः ।। १०१ ।। अथेयेष प्रभुदीक्षां ते च लोकान्तिकामराः । सचिवा इव भावज्ञा एत्य व्यज्ञपयन्निति ।। १०२ ॥ अलं संसारवासेन नाथ ! तीर्थं प्रवर्तय । संसारसिन्धुं येनान्येप्युत्तरन्ति दुरुत्तरम् ।।१०३ ।। लोकान्तिकेषु देवेषु विज्ञपय्य गतेष्विति । प्रारेभे वार्षिकं दानं निर्निदानं जगत्पतिः ।। १०४ ॥ स्वामिनो ददतो द्रव्यमानीयानीय जृम्भकाः । शक्रादिष्टकुबेरेण प्रेरिताः पर्यपूरयन् ॥ १०५ ॥ सांवत्सरिकदानान्ते चतुःषष्ट्यापि वासवैः । दीक्षाभिषेको विदधे विधिवद् जगदीशितुः ।। १०६ ॥ कृताङ्गराग आमुक्तदिव्यांशुकविभूषणः । आरोहत्छिबिकां नाथोऽर्थसिद्धां स्वार्थसिद्धये ।। १०७ ॥ आदावुत्क्षिप्तया मत्यैरमत्यैस्तदनन्तरम् । तया शिबिकया नाथः सहस्राम्रवणं ययौ ।। १०८ ।। तत्र चोत्तीर्य तत्याज भगवान्भूषणादिकम् । तदंसदेशे निदधे देवदूष्यं च वासवः ।। १०९ ॥ माघस्य शुक्लद्वादश्यामभीचौ पश्चिमेऽहनि । कृतषष्ठः प्रभुः केशानुद्दधे पञ्चमुष्टिना ।। ११० ॥ शक्रः प्रतीष्य चिकुरानुत्तरीयाञ्चलेन तान् । क्षणेन गत्वा क्षीरोदेऽक्षिपद् भूयोऽपि चागमत् ।। १११ ॥ सुरासुरनृणां शक्रस्तुमुलं निषिषेध च । प्रतिपेदे च चारित्रं स्वामी सामायिकं पठन् ॥ ११२ ॥ मनःपर्ययसंज्ञं च तुर्यं ज्ञानमभूद्विभोः । नारकाणामपि सुखं तदा क्षणमजायत ।। ११३ ॥ त्यक्त्वाङ्गमलवद् राज्यं सहस्रं पृथिवीभुजः । जगूहुः स्वामिना साधं प्रव्रज्यां मोहशातनीम् ॥ ११४ ॥ प्रभुं नत्वा ततः शक्रोऽन्येऽपीन्द्राः सँपरिच्छदाः । स्थानं निजनिजं जग्मुः प्रावृषि प्रोषिता इव ।। ११५ ॥ १ निर्हेतुकम् । २ असुरविशेषाः । ३ ऊढया । ४ देववस्त्रम् । ५ अभिजिन्नक्षत्रे । ६ गृहीत्वा । ७ सपरिवाराः । ८ प्रवासिनः । + चिकुरान् केशान् ।
दीक्षा।
&॥३९॥