________________
तृतीयं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते ॥३८॥
सर्गः
अभिनन्दनजिनचरितम् ।
तत्रापस्वापिनीमहत्प्रतिबिम्बं च सोऽहरत् । देव्याः पार्श्वे च निदधे तया स्थित्या जगत्पतिम् ।। ८६ ॥ स्वामिहात्ततः शक्रो मेरुतोऽन्ये तु वासवाः । यथायथागतेनैव स्वं स्वं स्थानं ययुः क्षणात् ।। ८७ ॥ राज्ञापि विदधे प्रातः सूनुजन्मोत्सवो महान् । हर्षस्यैकातपत्रत्वजनकः सकले जने ॥ ८८ ॥ कुलं राज्यं पुरी चात्राभ्यनन्दद्गर्भगे हि तत् । अभिनन्दन इत्यस्य पितरौ नाम चक्रतुः ।। ८९ ॥ शक्रसङक्रमितसुधां स्वकीयाङ्गुष्टकात्पिबन् । पाल्यमानो धुधात्रीभिः क्रमेण ववृधे प्रभुः ।।९० ॥ सुरासुरकुमारैश्च चित्रक्रीडनपाणिभिः । विचित्रक्रीडया क्रीडन् बाल्यं स्वाम्यत्यवाहयत् ॥ ९१ ।। उद्यानपादप इव वसन्तमिव यौवनम् । सर्वाङ्गशोभाजनकं प्राप स्वाम्यभिनन्दनः ।। ९२ ।। सार्धधन्वत्रिशत्युच्चो जानुलम्बिभुजो बभौ । सदोलाद्रुरिवाबद्धदोलायष्टिद्वयः श्रियः ।। ९३ ।। भालगण्डस्थलेनार्धचन्द्रशोभाभिभाविना । मुखेन च बभौ स्वामी पूर्णेन्दुश्रीविडम्बना ।। ९४ ।। स्वर्णशैलशिलोरस्कः पीनस्कन्धः कृशोदरः । एणीजवो जगन्नाथः कूर्मोन्नतपदोऽशुभत् ।। ९५ ॥ विषयेषु निरीहोऽपि भोग्यं कर्म निजं विदन् । पितृभ्यां प्रार्थितो राजपुत्रीः प्रभुरुपायत ।। ९६ ॥ क्रीडोद्यानसरोवापीशिलादिषु यहच्छया । स रामाभिः समं रेमे ताराभिरिव चन्द्रमाः ।। ९७ ॥ इत्थं च जन्मतः स्वामी सौख्यमनोऽहमिन्द्रवत् । पूर्वलक्षद्वादशकं गमयामास सार्धकम् ।। ९८ ।। अनुनीय न्यधाद्राज्येऽभिनन्दनविभुं ततः । स्वयं तु संवरनृपः प्रव्रज्याराज्यमाददे ।। ९९ ।। शशास लीलया स्वामी ग्राममेकमिवावनिम् । त्रिजगत्त्राणशौण्डस्य तस्योर्वीशासनं कियत् ॥१०० ॥
१ निद्रां । २ चित्राणि विचित्राणि क्रीडनानि क्रीडासाधनानि पाणिषु करेषु येषाम् । ३ एण्याः मृग्याः जंघा इव जंघा यस्य । ४ निर्गता ईहा इच्छा यस्य । ५ त्रयाणां जगतां त्राणे रक्षणे शौंडः चतुरः तस्य । * स्वं स्थानं य° ।
नामकरणम् ।
॥३८॥