________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७॥
तृतीयं पर्व द्वितीयः सर्गः अभिनन्दनजिनचरितम् ।
नाथन भवता सनाथमधुना ज
निविशतां पुण्यपरमाणुकामलम ॥७८ ।।
एकः शक्रः प्रभु दधेऽन्यश्छत्रं द्वौ च चामरे । कुलिशं नर्तयन्नन्यो नृत्यन्नेव ययौ पुरः ।। ६९ ।। प्राप मेरावर्तिपाण्डुकम्बलां स क्षणाच्छिलाम् । तत्सिंहासनमध्यास्त शक्रोऽक्षरोपितप्रभुः ॥७० ।। तत्राच्युतादयोऽपीन्द्रास्त्रिषष्टिः सपरिच्छदाः । समेत्यास्नपयन्नाथमम्भस्कुम्भैर्यथाविधि ॥७१ ॥ पञ्चमूर्तीभूयेशानोऽप्यके स्वामिनमादधे । एकच्छत्रं चामरे द्वौ शूलमन्यः पुरःसरः ।।७२ ।। विचक्रे स्फाटिकानुक्ष्णश्चतुरो दिक्चतुष्ट्ये । तच्छृङ्गोत्थैर्जलैः शक्रोऽस्नपयत्परमेश्वरम् ॥७३ ॥ प्रभुं विलिप्य सम्पूज्य वस्त्रालङ्करणादिना । उत्तार्यारात्रिकं चेत्थं शक्रः प्राञ्जलिरस्तवीत् ।। ७४ ।। स्वामिश्चतुर्थतीर्थेश ! चतुर्थारनभोरवे ! । चतुर्थपुरुषार्थश्रीप्रकाशक ! जय प्रभो ! ।।७५ ।। *चिरान्नाथेन भवता सनाथमधुना जगत् । विवेकचौरैर्मोहाथै वोपद्रोष्यते क्वचित् ।।७६ ।। पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निविशतां पुण्यपरमाणुकणोपमम् ।।७७ ॥ मद्दशौ त्वन्मुखासक्ते हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥७८ ॥ त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥७९ ॥ मम त्वद्दर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । तुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ।। ८० ॥ त्वद्वक्त्रकान्तिज्योत्स्नासु निपीतासु सुधास्विव । मदीयलोचनाम्भोजैः प्राप्यतां निर्निमेषता ॥८१ ॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ।। ८२ ॥ कुण्ठापि यदि सोत्कण्ठा त्वगुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥८३ ॥ तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नातः परं ब्रुवे ।। ८४ ।। स्तुत्वैवं पञ्चधाभूयेशानादादाय च प्रभुम् । प्राग्वच्छत्रादिभृत्छक्रः स्वामिवेश्म क्षणाद्ययौ ।। ८५ ॥
१ वजं । २ तन्नाम्नी शिलाम् । ३ बलीवर्दान् । ४ लासिनी नर्तके । ५ उपास्तिः उपासना । * चिरं ना संबृ. ॥ - निवसतां ।
इन्द्रकृतो जन्मोत्सवः ।
॥३७॥