________________
त्रिषष्टिशलाका
पुरुषचरिते
तृतीयं पर्व द्वितीयः सर्गः अभिनन्दनजिनचरितम् ।
॥३६॥
पञ्चवर्णा च पुष्पस्रक पूर्णश्च रजनीकरः । द्योतमानश्च मार्तण्डः किङ्किणीमालितो ध्वजः ।। ५४ ।। पूर्णकुम्भश्च सौवर्णः पद्मच्छत्रं महासरः । उत्तरङ्गः सरिन्नाथो विमानं च मनोरमम् ।। ५५ ।। रुचिरो रत्नपुञ्जश्च निधूमश्च विभावसुः । प्रबुद्धा स्वामिनी स्वप्नानेतान् राज्ञे शशंस च ।। ५६ ॥ एभिः स्वप्नैस्तव देवि ! भावी त्रिजगदीश्वरः । नूनं सूनुरिति स्वप्नान्पार्थिवोऽपि व्यचारयत् ।। ५७ ॥ इन्द्रा अपि समेत्यैवं स्वप्नार्थं व्याचचक्षिरे । चतुर्थस्तीर्थनाथस्ते देवि सूनुर्भविष्यति ॥ ५८ ॥ तं देव्यपि निशाशेषं जाग्रत्येवात्यवाहयत् । निद्रा दूरं ययौ तस्या हर्षेणैवापहस्तिता ।। ५९ ॥ सिद्धार्थास्वामिनीकुक्षौ गर्भः सोऽथ दिने दिने । पद्मकोशे बीजकोश इव गूढमवर्धत ॥ ६०॥ सिद्धार्था स्वामिनी गर्भ सुखेन तमधारयत् । तादृशानामवतारः सुखाय जगतोऽपि हि ॥६१ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । माघशुक्लद्वितीयायामभिचिस्थे क्षपाकरे ।। ६२ ।।। सिद्धार्था स्वामिनी सूनुमनूनं तेजसा रवेः । सुखेन सुषुवे स्वर्णवर्णं प्लवगलाञ्छनम् ।। ६३ ॥ लोकत्रयेऽपि युगपदुद्योतोऽभूत्तदा क्षणम् । क्षणं च सौख्यमुत्पेदे नारकप्राणिनामपि ।। ६४ ॥ षट्पञ्चाशद्दिकुमार्यः स्वस्वस्थानादुपेत्य ताः । देव्याः सूनोश्च विदधुः सूतिकर्म यथोचितम् ॥६५ ।। विज्ञायासनकम्पेन शक्रोऽर्हज्जन्म तत्तदा । आययौ पालकारुढः स्वामिवेश्माऽमरैः सह ।।६६ ॥ शक्रो विमानादुत्तीर्य प्राविशत्स्वामिवेश्म तत् । तत्र च स्वामिनं स्वामिजननी च नमोऽकरोत् ।। ६७ ॥ दत्वावस्वापिनीं देव्याः पार्श्वे सौधर्मवासवः । निधायार्हत्प्रतिच्छन्दं पञ्चरुपोऽभवत्स्वयम् ।। ६८ ॥ १ अग्निः । २ अपसारिता । ३ अर्धः अष्टसंख्यापूरकः येषु । ४ पूर्ण । ५ प्लवगः कपिः लांछन चिन्हं यस्य । ६ अवस्वापिनी निद्रां ।
चतुर्दशस्वप्नाः ।