________________
त्रिषष्टि
शलाका
पुरुषचरिते
।।३५।।
सिद्धार्था नाम शुद्धान्तमण्डनं शुद्धवंशजा । सधर्मचारिणी तस्य बभूव गुणहारिणी ॥ ४० ॥ विलासमन्दया गत्या भृशं मधुरया गिरा । चकासामास सा राजहंसीव मधुराकृतिः ।। ४१ ।। तस्यां च पुण्यलावण्यनिम्नगोयां मनोरमम् । वक्त्रनेत्रं पाणिपादं पद्मखण्डमिवाशुभत् ॥ ४२ ॥ इन्द्रनीलमयीवान्तर्विलोचनैकुशेशये । मुक्तामयीव दन्तेषु वैद्रुमीवौष्टपत्रयोः ॥ ४३ ॥ नखेषु शोणाश्ममयीवाङ्गे स्वर्णमयीव च । बभासे चारुसर्वाङ्गमपि रत्नमयीव सा ।। ४४ ।। ॥ युग्मम् ॥ नगरीणां विनीतेव विद्यानामिव रोहिणी । मन्दाकिनीव सरितां सा सतीनामभूद्धरि ।। ४५ ।। नाप्यत् प्रणयेनापि सा पत्यौ यत्कुलस्त्रियः । पतिव्रतात्वे व्रतवतिचारस्य भीरवः ॥ ४६ ॥ तस्यामात्मानुरुपायां प्रेयस्यां प्रेम भूपतेः । अजायताविसंवादि नीलीरागसहोदरम् ॥ ४७ ॥ अबाधितौ मदस्थानैः सर्वैर्धर्माविबाधया । दम्पती बुभुजाते तौ तत्तद्वैषयिकं सुखम् ॥ ४८ ॥ इतो विमानविजये त्रयस्त्रिंशतमर्णवान् । जीवो महाबलस्यायुः सुखमग्नोऽत्यवाहयत् ॥ ४९ ॥ वैशाखसितचतुर्थ्यामभिचिस्थे निशाकरे । ततश्च्युत्वा स सिद्धार्थादेवीकुक्षाववातरत् ॥ ५० ॥ ज्ञानत्रयधरे तत्रावतीर्णे त्रिजगत्यपि । उद्योतोऽभूत्सुखं चासीन्नारकप्राणिनामपि ।। ५१ ।। सुखसुप्ता तु सा देवी निशायाः प्रहरेऽन्तिमे । मुखे प्रविशतोऽद्राक्षीन्महास्वप्नांश्चतुर्दश ।। ५२ ॥ श्वेतवर्णश्चतुर्दन्तः करी कुन्दद्युतिर्वृषः । व्यात्तवक्त्रो हरिर्लक्ष्मीरभिषेकमनोरमा ।। ५३ ।।
१ अंतःपुरभूषणं । २ निम्नगा नदी । ३ कुशेशयं शतपत्रकमलं । ४ पद्मरागमणिमयी । ५ विद्यादेवीनां अग्रिमा देवी । ६ गंगा । ७ अतिक्रमणस्य । ८ विसंवादः वंचनायुक्तभाषणं स नास्त्यस्मिन् । ९ सागरोपमान् । १० कुन्दं माध्यकुसुमं । ११ व्यात्तं विवृत्तं वक्त्रं मुखं येन सः । • कुशेशयम् । * दतिचा' ।
तृतीयं पर्व द्वितीयः
सर्गः
अभिनन्दनजिनचरितम् ।
गर्भा
वतरणम् ।
||३५||