Book Title: Trishashti Shakala Purush Charitam Part 2
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः सर्गः अजितसगरचरितम् ।
॥२०९॥
282828282828282828282828288
प्रत्यन्तग्राममेकं तु, सङ्घः सायमवाप सः । निशायां चाऽध्युवासोपकुम्भकारनिकेतनम् ॥५९०॥ सङ्ख समृद्धं तं दृष्ट्वा, हृष्टो ग्रामजनोऽखिलः । तल्लुण्टनार्थमुत्तस्थे, दण्ड-कोदण्ड-खड्गभृत् ॥५९१ ॥ प्रबोध्य वचनैश्चाटुगभैरमृतसोदरैः । सशूकः कुम्भकारस्तं, ग्रामलोकं न्यवारयत् ॥५९२॥ कुम्भकारस्य तस्योपरोधाद् ग्रामजनोऽखिलः । भूतः पात्रमिव प्राप्तं, तं सङ्घममुचत् तदा ॥५९३ ॥ अन्येधुरेकवास्तव्यदस्युदोषान्महीभुजा । सबाल-वृद्धः स ग्रामो, दाहितः परराष्ट्रवत् ॥५९४ ॥ मित्रेणाऽऽमन्त्रितः कुम्भकारो ग्रामान्तरं गतः । दाहात् तेनावशिष्टोऽभूत्, सर्वत्र कुशलं सताम्॥५९५ ॥ ततः स कालयोगेन, कालधर्ममुपागतः । वणिग् विराटदेशेऽभूद्, द्वितीय इव यक्षराट् ॥५९६ ॥ स तु ग्रामजनो मृत्वा, विराटविषयेऽपि हि । जनो जानपदो जज्ञे, तुल्या भूस्तुल्यकर्मणाम् ॥५९७ ॥ मृत्वा च कुम्भकृज्जीवस्तत्राऽभूत् पृथिवीपतिः । ततोऽपि मृत्वा कालेन, देवोऽभूत् परमद्धिकः ॥५९८ ॥ च्युत्वा च देवसदनाज्जातोऽसि त्वं भगीरथः । ते च ग्राम्या भवं भ्रान्त्वा, जह्युप्रभृतयोऽभवन् ॥५९९ ॥ मनस्कृतेन सङ्घोपद्रवरुपेण कर्मणा । युगपद् भस्मसादासन्, निमित्तं ज्वलनप्रभः ॥६०० ॥ तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । तस्मिन्निव भवेऽत्राऽपि, न दग्धोऽसि महाशय! ॥६०१॥ केवलज्ञानिनस्तस्मादाकर्येत्थं भगीरथः । परं संसारनिर्वेद, विवेकोदधिरादधे ॥६०२॥ गण्डोपरि स्फोट इव, दुःखं दुःखोपरि प्रभोः । मा भूत् पितामहस्येति, न प्रावाजीत् तदैव सः॥६०३ ॥ केवलज्ञानिनः पादान्, वन्दित्वाऽथ भगीरथः । रथमारुह्य भूयोऽपि, साकेतनगरं ययौ ॥६०४॥
१ दयासहितः। २ कुबेरः।
282828282828282828282828282
जह्वप्रभृतीनां सगरपुत्राणां भगीरथस्य च पूर्वभवाः।
॥२०९॥

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384