Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
॥ ॐ अहँ नमः ॥
श्री चिरंतनाचार्य विरचितं
॥ श्री तत्त्वार्थाधिगमटीप्पणम् ॥ ॐ नमः पार्थाय । उमास्वातिर्न बोटिको, वाचकपदवीमत्त्वाद्, नागार्जुनादिवत् । उमास्वातिर्न बोटिकस्तत्त्वार्थप्रकरणं प्रति कर्तृत्वात्प्रशमरत्यादिप्रकरणं प्रतीव । यतस्तत्र सूत्रम्"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति । अत्र सम्यग्दर्शनस्य प्राथम्यं शास्त्रयोजनानुग्रहार्थम्, अत एव "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इत्येकसूत्रेणापि तोषः, "सव्वगयं सम्मत्तमिति" वचनात् । ज्ञानं प्रति नैवं सूत्रसंतोषस्तथाविधबहुलप्रकारित्वाच्चारित्रं प्रतीवेति । "जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति" । अत्र पुण्यपापयोः परान्तर्भावः शास्त्रयोजनानुग्रहार्थः । अत एव "सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम्" । "अतोऽन्यत् पापमिति" सूत्रसन्तोषः । "विशुद्ध्यप्रतिपाताभ्यां तद्विशेष" इति । अत्र विपुलमतित ऋजुमतेः क्षेत्रतया वैषम्यं न ज्ञापितम् । "औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ" चेति । अत्र मिश्रशब्दस्य भिन्नविभक्तिकतयैकस्यैव कर्मण उदीर्णानुदीर्णतावस्थापेक्षं क्षयोपशमौ ज्ञापितौ । "सोऽष्टचतुर्भेदः" इति । अत्र दर्शनोपयोगस्य यशःप्रधानता न ज्ञापिता । "पृथिव्यम्बुवनस्पतयः स्थावराः । तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति । अत्र तेजोवाय्वोभिन्ननिर्देशत: "तओ थावरा पन्नत्ता । त० पुढवीकाइया आउकाइया वणप्फइकाइया । तओ तसा पन्नत्ता । तं० तेउकाइया वाउकाइया तसकाइया" इति प्रवचनभक्तिमता लब्धित्रसत्वं ज्ञापितम्, "रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोधः पृथुतराः" इति । अत्र सप्तन्शब्दस्य भूमिविशेषणता ज्ञापिता, अत एव स्वर्गसूत्रे नवसु ग्रैवेयकेष्वित्यत्र नव-शब्दस्यापि पटुप्रैवेयकविशेषणता । "प्राग्मानुषोत्तरान्मनुष्या" इति । अत्र-मनुष्यक्षेत्रतो बहिर्मनुष्याणां गमनं न निषिद्धं, त्रसनाडीतो बहिस्रसाणामिव । "तृतीयः पीतलेश्य" इति । अत्र ज्योतिष्काणां सुरत्वं ज्ञापितम् । “दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ता" इति । अत्र षोडशविकल्पा इति न ज्ञापितम् । इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश इति । अत्र प्रतीन्द्रादानं न कृतं, पूर्वयोर्दीन्द्रा इति । अत्र चतुरिन्द्रा इति न ज्ञापितम् ॥ "पीतान्तलेश्या" इति, अत्र भवनपतिव्यन्तराणामसुरतासाधर्म्य ज्ञापितम् । शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोरिति । अत्र स्वर्गीयसूत्र .... फल .... "भवनवासिनोऽसुरनाग१. "इदं किल श्रीपुण्यपत्तनस्थडेक्कनकोलेजापाठशालासत्भाण्डागारस्थित-तत्त्वार्थभाष्यादर्शपरितो लिखितं टिप्पणं यथातथं पूर्वसम्पादकेन परिशिष्टाख्यया मुद्रितम् ।" इति प्राचां सम्पादकानां मुद्रिते प्रतौ अधस्तात् लिखितं टिप्पणमस्ति । अस्य च हस्तप्रतेरभावात् अस्माभिर्यथावदेव उपयोगित्वादत्र मुद्रापितमिति ज्ञेयम् ।

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604