Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 586
________________ પરિશિષ્ટ-૨ २८. " अनर्थान्तरं " न अर्थानन्तरानित्यागमे । (अ०१ सू०१३) २९. ‘“अवग्रहेहापायधारणा" "विषय विषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तर-सामान्याकारविशिष्टवस्तुग्रहणमवग्रहः " १ । " अवगृहीतविशेषाकाङ्क्षणमीहा " २ । “ईहितविशेषनिर्णयो-ऽवायः " ३ । " स एव दृढतमावस्थापन्नो धारणा " ४ । “संशयपूर्वकत्वादीहायाः संशयाद्भेदः” । “कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशः " "असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्णभावतयानुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चेति व्यतिरिच्यन्ते" । "क्रमोऽप्यमीषामयमेव, तथैव संवेदनत्वात्" । "एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च" । "अन्यथा प्रमेयानवगतिप्रसङ्गः" । "न खल्वदृष्टमवगृह्यते न चानवगृहीतं संदिह्यते न चासन्दिग्धमीह्यते न चानीहितमवेयते नाप्यनवेतं धार्यते" । इति स्याद्वादरत्नाकराख्यन्यायशास्त्रे (अ०१ सू०१५ ) ૫૭૩ ३०. निश्रितं अनिश्रितं निश्रितमिति सापेक्षं, यथा कश्चित्कृष्णरज्जुमवलोक्य सर्प स्मरतीत्यादिवत् । अनिश्रितं निरपेक्षं यथा स्वयमेव सर्पादिकस्मरणमित्यादि । (अ०१ सू०१६) ३१. “एतिहा” इतिह इति सम्प्रदायार्थमव्ययपदं ततः स्वार्थेण्यः । ३३. "अङ्गप्रविष्ट आचाराङ्गादि" एकादशसु आचारप्रभृतितो विपाकसूत्रपर्यन्तेषु क्रमशः पद्वैगुण्यं भवति । यथा १८००० अष्टादशसहस्राणि पदानामाचाराङ्गे । अतः ३६०००, १४४०००, २८८०००, ५७६०००, ११५२०००, २३०४०००, ४६०८०००, ९२१६०००, १८४३२०००, द्वादशस्य दृष्टिपाताख्यमहासमुद्रस्य पञ्चपदानि तद्यथा - परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका: ५ । तत्र पूर्वगताख्यचतुर्थपदे चतुर्दशापि पूर्वाणि गतप्रमितमषीपुञ्जलिखनविधिद्विगुणानि क्रमशः १, २, ४, ८, १६, ३२, ६४, १२८, २५६, ५१२, १०२४, २०४८, ४०९६, ८१९२ इति । "आचाराङ्गादि" विवाहप्रज्ञप्तिः, विबाधप्रज्ञप्तिः विविधप्रज्ञप्तिः, व्याख्याप्रज्ञप्तिः, भगवती इत्यनर्थान्तम् । ३४. (किंकृत इति ) - केन कृत इति किंकृतः ॥ ३५. (तीर्थकरनामकर्मणः ) यदागमः । “तिविहे आगमे पन्नत्ते । तं [ जहा] अत्तागमे, अन्तरागमे, परंपरागमे " इति । आप्तागमाऽनन्तरागमपरंपरागमभेदात्त्रिविधो ह्यागमः । यथा अर्थतो द्वादशाङ्गी परमेश्वरस्य आप्तागमः । सा चैव सूत्रतो गणधराणामाप्तागमः, अर्थतश्च तेषामनन्तरागमः स्यात्, परमेश्वरेणैवाऽर्थप्ररूपणात् । "अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणमिति" वचनात् । महाराजाधिराजस्य तीर्थकरस्य सूत्रत आप्तागमो नास्तीत्यर्थः । ततो गणधरशिष्याणां सा चैव सूत्रतोऽनन्तरागमः । अर्थतस्तु परम्परागमः स्यात् । ततः परं प्रशिष्यादीनां सूत्रतोऽर्थतश्च परम्परागमः । न ह्याप्तागमो नाप्यनन्तरागम इत्यर्थः । आप्तागमो मूलपुरुषप्ररूपित उच्यते, अनन्तरागमस्तु

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604