Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
પરિશિષ્ટ-૨
૫૭૧
१७. "अरूपीति" नास्ति रूपी रूपवानित्यरूपी, नासौ रूपादिधर्मसमन्वित इत्यर्थः छद्मस्थस्य यद्यपि कर्मपटलोपरागस्तथा(प्या)त्मा स्वं स्वभावं न त्यजतीति । आगन्तुकं हि कर्मरजो मलिनयत्यात्मानम्, अभ्रादीव चन्द्रमसमिति ।
. १८. "नोस्कन्धा" इति । तथा नोस्कन्धः, अरूपत्वादेव, न स्कन्धः पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणात्तु स्यात्स्कन्धः । अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः ।
१९. "नोग्राम इति ।" एवं नोग्रामोऽपि वक्तव्यः 'चउसहिं भूयग्गामेहि' इत्यागमे भूतग्रामाश्चतुर्दश सन्ति । ततश्च न कश्चित्सकलो ग्रामः सम्यग्दृष्टिः ॥
२०. "जीवस्याजीवस्य इत्यादि भङ्गाः ।" यदा एकं साध्वादिकं जीवं प्रतीत्य सम्यक्त्वमुत्पद्यते, तदा निमित्तापेक्षया जीवस्यैव १, इह यस्य सम्यग्दर्शनमागतं स जीवो न विवक्षितः १, एवमर्हत्प्रतिमापेक्षयाऽजीवस्य २, द्वयोः साध्वादीनामन्यतमजीवयोनिमितयोरेवाऽपेक्षया जीवयोरिति भङ्गः ३ । एवं द्वयोरर्हत्प्रतिमयोः ४ । बहूनां साध्वादीनां निमित्तभूतानामपेक्षया जीवानामिति भङ्गः ५ । एवं बहूनामर्हत्प्रतिमानां ६ । सर्वेष्वपि एतेषु प्राप्तसम्यक्त्वो जीवो नापेक्ष्यते, परसंयोगस्यैवाऽधिकारविवक्षणात् । उत्तरसंयोगे आत्मपरसंयोगचिन्ता कार्या । तत्र जीवस्य १ अजीवस्य २ इत्येतौ भङ्गौ न स्तः, एकाकिनो ह्युभयसंयोगानौचित्यात् । अथान्ये भङ्गास्तु संभवन्त्विति न वाच्यम् । यस्माज्जीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहणं द्वयोः कयोश्चिन्निमित्तभूतयोरेव ग्रहः क्रियते, तौ च परसंयोगविश्रुतावतस्त्याज्यो जीवयोरिति तृतीयः भङ्गः । एवमजीवयोनिमित्तभूतयोः । जीवानां निमित्तभूतानां अजीवानां निमित्तभूतानामिति षडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः, ते त्विमे - जीवस्य जीवस्य १, जीवस्य अजीवस्य २, जीवस्य जीवयोः ३, जीवस्य अजीवयोः ४, जीवस्य जीवानां ५, जीवस्य अजीवानां ६ इति । अत्र धारकपुरुषस्य तथा निमित्तभूतस्य कस्यचिदेकस्य द्वयोर्बहूनां च ग्रहणादुभयनयसंयोगाऽविरोधसिद्धिः । न च वाच्यं जीवयोरित्यादिभङ्गेषु जीवस्य च जीवस्य चेति समासबलादुभयसंयोगो भविष्यति । एकपदविभक्त्या एकस्य संयोगस्यैव ग्रहणोपदेशः समाधीयते ।
२१. "तदावरणीयस्य कर्मणो दर्शनमोहस्य च" इह सम्यक्त्वोत्पत्तौ ज्ञानावरणीयकर्मणोऽपि पराजयो भवति, मिथ्यात्वमोहस्यापि भवति अत इदं प्रोच्यते । ननु सप्तप्रकृतीनामनन्तानुबन्धिकषायचतुष्कदर्शन-मोहत्रिकताप्रसिद्धानामुपशमादिभ्य औपशमिकादिसम्यक्त्वोत्पत्तिः स्यात् ततः कथमनन्तानुबन्धिनः कषायाः सम्यक्त्वावरणत्वेऽपि नोपात्ता इति न वाच्यम । चारित्रमोहस्य पञ्चविंशतिप्रकारत्वात् । निमित्तसद्भावो हि सम्यक्त्वस्याऽनन्तानुबन्ध्युपशमादितः प्रवर्तते, न पुनस्ते सम्यक्त्वावरणानि भवितुमर्हन्ति । यथा केवलज्ञानस्य मोहक्षयः कारणमेव राजते, तदसद्भावे

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604