Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
૫૭૦
તત્ત્વાર્થાધિગમ સૂત્ર "हेया बन्धासवपुण्णपावा, जीवाजीवा य हुंति नेयाओ । संवरनिज्जरमुक्खा, तिन्नि वि एए उवाएया ॥१॥" इति जीवाजीवयोः कथञ्चिदभेदः, अन्यतमस्मिन्नपि जिनात्मकज्ञेये सकलज्ञेयानां प्रतिबिम्बितत्वात् । पुण्यपापाश्रवबन्धानां च कथञ्चिदैक्यम् हेयत्वसाधर्म्यात् जलबीजशाखादिवत् । तथा संवरनिर्जरामोक्षाणामपि कथञ्चिदैक्यम् । न हि संवरं विना निर्जरा भवति, नापि निर्जरामन्तरेण मोक्षः सम्प्राप्यते । कथञ्चिच्च जीवादिसर्वेषामप्यभेदः, "सर्वमेकं सदविशेषांत्" इति सङ्ग्रहापेक्षाप्रवृत्तेः । कथञ्चिच्चाऽतीवसंख्याकत्वं व्यवहाराख्यनयप्रवृत्तेः । सर्व एव भावा अनन्तनयात्मका न चैकान्ताः । (अ.१ सू.४)
१४. "एभिर्नामादिभिरिति" अत्राऽनादिस्वयंसिद्धधर्मास्तिकायरूपलोके नामस्थापनाभ्यामुपकृतानि सर्वाणि भवन्ति, तदनर्हाणां सर्वेषामप्यवस्तुत्वात् । तद्यथा - नामाऽत्युपक्रियमाणा धर्माधर्मादीनां प्रतीतिरास्ते । तद्विरहे किञ्चिन्मात्राया अप्यप्राप्तेः । स्थापनाऽप्युपक्रियमाणा च तदवगाहनासमुपलब्धिः समस्ति । न खलु तद्विप्रयोगेऽद इदमेतदिति सम्प्राप्त्यौचिती स्यात् । नाप्यद इदमेतदित्येतेषामविषयीभूते क्वचिदपि वस्तुत्वं प्रवर्तते । मा च कश्चिद्विवदता उपचारोऽयमिति । उपाचारमन्तरेण परमार्थाऽनवाप्तेः । उपचारपरतन्त्रत्वात्परमार्थस्य । न खल्वेकाख्यमकं विशिष्टादिबीजभूतं विना तदतिवृद्धानां द्वित्रिचतुराद्यकानामपि सतत्वभणितिस्तत्परिज्ञानं वा लेशतोऽपि भवितुमर्हतीति । अत्रायं भावः, यथा गौतमस्वामी गौतमशब्दे जैनानां तद्विज्ञातॄणां वाऽन्येषां मनसा चिन्त्यमानो भवति सत्य तदा तस्य प्रभो मनिक्षेपः । न च वाच्यं मिथ्यादृष्टिप्रसिद्धगौतमाख्यविप्रर्षिचिन्तायामपीति । यतो हि प्रोक्तमास्ते "अन्नत्थ वंजणे निवडियंमि जो खलु मणोगओ भावो । तत्थ उ मणं पमाणं, न पमाणं वंजणच्छलणा ॥१॥ इति, अत एव स्थापनानिक्षेपोऽप्येवं भाव्यः । कथमन्यथा परतीर्थिकदेवालयवर्तमानजिनेश्वरप्रतिमाप्रणत्य० [तिः ?] स्यात् नोचिता, भण्यते च रुद्रादिसामान्यमसौ स्थितश्चेन्न वन्दनीयो हितमूहमानैः । अधः प्रजानां वसतः सतोऽपि, नृपस्य यस्मान्महिमा क एव ॥१॥
१५. "धर्मादीनि पञ्च सगुणपर्यायाणीति ।" गत्याद्यगुरूलघुप्रभृतिपर्यायभाञ्जीति । एतत् स्यात् यद्येन धर्मेण समन्वितं तं धर्मं न कदाचिज्जहाति तेन सदान्वितमास्ते । इत्येतच्च न प्राप्तिलक्षणानि परिणामलक्षणानीति यावत् । अन्यानन्यांश्च धर्मान्प्रतिपद्यन्ते इति । जीवास्तावद् देवमनुजादीन्, पुद्गलाः कृष्णादीन् । धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति । यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते इति वृत्तौ हरिभद्रपादाः ॥
१६. "प्राभृतज्ञ" इति आगमे पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति शब्दप्राभृतं, तच्च पूर्वेऽस्ति, यत इदं व्याकरणमायातं, तत् शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति, न चैवमहमेव वच्मीति भावः (अ०१ सू०५)

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604