Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 588
________________ પરિશિષ્ટ-૨ ૫૭૫ चउद्दसपुव्वी आहारगा य मणनाणी वीयरागा वि । हुन्ति पमायपरवसा, तयणन्तरमेव चउगइया ॥१॥ अत्र ऋजव एव मनःपर्यायिणः, उपशान्ता एव च वीतरागा गृह्यन्ते, एकादशगुणस्थानवर्तिनामपि वीतरागत्वप्रतिपत्तेः ॥ (अ०१ सू०२५) ४१. (विशुद्धतराणि) - इह विशुद्धिः सम्यक्त्वविनिर्मिता वेदितव्या । कोऽर्थः ? । अवधिज्ञानमभव्यानामपि भवति, विभङ्गस्याप्यवधिशब्दप्रतीतत्वात् । मनःपर्यायज्ञानं तु नियमाद्विनिर्मलं, न खल्विदमवधिज्ञानाख्यमध्यमपुरुषवत्प्रतिज्ञाशैथिल्यं भजते । मध्यमपुरुषा हि स्वार्थपरवशा उत्तममप्युपासते नीचमप्युपासते । एवमवधिरपि सम्यक्त्वभाजं पुमांसं परिचरति स एव पुमान् मिथ्यात्वं गतश्चेत्तदापि परिचरतीति । मनःपर्ययं तु सुविशुद्धकुलीनपुरुषवच्छुभाचारस्वामिनमेवाराधयतीत्येतयोर्महदन्तरम् । यथा हि केवलज्ञानस्य कश्चिदाभासो नास्ति एवमेतदपि निराभासम् ॥ (अ०१ सू०२९) ४२. (पर्यायेण)- कोऽर्थः ? । मतिज्ञानादिभिर्वस्तुनो निर्धारणं न हि युगपत्कर्तुं शक्यतेऽतः पर्यायेणेत्युक्तम् । ४३. (अनुसमयमुपयोगः) - इह ये केचिद्वदन्ति युगपदिति समकालमेकसमयेऽपि ज्ञानदर्शने भगवतो भवतस्तद्भ्रान्तम् । कथमिति चेदुच्यते-ऽमी एवोमास्वातिनः पञ्चमेऽध्याये "योगोपयोगौ जीवेष्वादिमन्तौ भवतः" इति वक्ष्यन्ति । तथाविधजीवस्वाभाव्याद्, यस्मिन्समये ज्ञानोपयोगस्तस्मिन्दर्शनोपयोगो नास्ति । यस्मिंश्च दर्शनोपयागो न तस्मिन् ज्ञानोपयोग इति । "जुगवं दो नत्थि उवओगा" इति जिनागमसमुद्रः । यद्येवं तर्हि केवलज्ञानं साद्यनन्तं कथं प्रोच्यते, समयान्तरेणैव सादिसान्तत्वदर्शनात् । मैवं, लब्ध्यपेक्षयाऽदः केवलं साद्यनन्ततया भण्यते, न चोपयोगापेक्षया । लब्धिस्तु तस्य सततमप्यस्ति । यथा देवानां लब्ध्यपेक्षं अवधिज्ञानं जन्मपर्यन्तं भवति । उपयोगापेक्षं त्वांतर्मुहूर्तिकमिति । अतो ज्ञेयं वस्तु केवलज्ञानेन युगपज्जानाति, दृश्यं च केवलदर्शनेन युगपत्पश्यति । न च द्वाभ्यां युगपदिति । (अ०१ सू०३१) ४४. (विपर्ययः) - यथा हि स्फटिकरत्नमूर्तिः स्वतो निर्मलापि पृष्ठिस्थापितकृष्णपटीकान्तिप्रविलासात्कृष्णैव भवति, एवं मिथ्यात्वसम्पर्केण ज्ञानमप्यज्ञानम् । एकवचनं तु मिथ्यात्वमोहस्योदयापेक्षम् । एकेनैव मिथ्यात्वेनैतानि क्षयोपशमरूपात्मकान्यप्यज्ञानानि स्युः (अ०१ सू०३२) ४५. (मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं)- कोऽर्थः येन कृत्वा उपचारः परमार्थतश्च यथारूपो ज्ञायते तच्च ज्ञानम्, येन च केवल एवोपचाराऽवबोधः प्राप्यते तदज्ञानम् । यथा हि नाम कश्चिदनवाप्तसम्यक्त्वः प्रष्टव्यः-साधु ब्रूहि भोः ! किं वर्णः किं गन्धः किं रसः किं स्पर्शोऽयं घट इति । ततोऽसौ श्रुत्वा लोकव्यवहारगतमेव प्रश्नव्याकरणतर्कं कर्तुमीष्टे । सम्यक्त्वलालितास्तु व्यवहारतः सर्वं दर्शयित्वा निश्चयतः पुनः पञ्चवर्णो द्विगन्धः पञ्चरसोऽष्टस्पर्शो घट इत्यपि वक्तुं भवति, पुद्गलद्रव्यत्वेन

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604