Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
૫૭૪
તત્ત્વાર્થાધિગમ સૂત્ર द्वितीयपुरुषगृहीत उच्यते, अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परा परिपाटीत्यर्थः । सा च तृतीयपुरुषादिषु ज्ञेया । यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्युः । अर्हतां त्वेते परंपरागोचरास्तुतीयपुरुषा इत्यर्थः ।
३६. (अनुभावात्) - अनुभावश्च तथाविधसूक्ष्मज्ञानिगोचरः । कर्माणि हि पौगलिकानि भवन्ति, पुद्गलानां चात्यान्तात्यन्ताश्चर्यभूताऽनुभावसन्ततिश्छद्मजनमनोवचसां सर्वशश्चिन्तनकथनगम्या न हि भवति । यतो हि उदकस्फाटकस्फटिकरत्नस्य मध्यप्रविष्टस्य प्रभावात्समुद्रजलमपि विदीर्णपर्वतवद् द्विधा भवति । चम्बुकप्रस्तरश्च लोहसूचीमपि स्निग्धात्मेव समुत्पाटयति । गन्धकयोगात्कृष्णीभूय गतप्रायोऽपि पारदस्तक्रादि । दिसम्बन्धेन कृत्वा कणशः पृथग्भवति, वशीकरणवल्लीविशेषाच्च चौराद्युपद्रवा न जायन्ते इत्यादिवत्तीर्थकराख्यनामकर्ममहाराजाधिराजस्यातिशयाः सम्यक् श्रद्धेया भवन्ति । कोऽर्थः । कस्य कस्यापि सकर्णचेतःपाटवस्य प्रकारान्तरसहस्रैरपि ज्ञानावरणीयक्षयोपशमविशेषो न चैव स्यात्तस्यापि जन्तोस्तीर्थकरपार्श्वतः समुपविष्टस्य सतो जायते एव । भगवद्वचसां सर्वजगज्जनभाषानुगमनपरिणतस्वरूपत्वाद्, यथा तुल्यरसस्पर्शगन्धवर्णमपि पानीयं जलदापतितं वृक्षवने यथास्वभावतया परिमणतीति । श्रूयतां चापि, यतः कैश्चिद्भिन्नशः पृष्टं । "रविरावियते कस्मालोहकारत्वधीः कुतः ? ॥ कस्माज्जीवस्य बन्धः स्याद्वद विश्वत्रयेश्वर ॥१॥ धनयोगात्" इति भगवता प्रत्युत्तरितम् ॥ (अ०१ सू०२०)
३७. (भवोत्पत्ति)- देवनारकाणां स्वभवधारणीयशरीरलाभेऽवश्यंभावी अवधिज्ञानावरणकर्मणः क्षयोपशमस्ततः शिष्योपचाराय 'भवप्रत्यय' इत्युच्यते परमार्थतस्तु सोऽपि क्षायोपशमिक इति (अ०१ सू०२२)
३८. (आ सर्वलोकात्) - खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं जाणइ पासइ । उक्कोसेणं अलोए लोयप्पमाणमित्ताइं असंखिज्जाइं खंडाइं जाणइ पासइ । इति नन्दीसिद्धान्तः । इहाऽवधिज्ञान विषयोऽलोकस्यापि लोकप्रमाणाऽसंख्यातखण्डानि यावदुक्तस्ततः कथमासर्वलोकाद्वर्धमानकमित्युच्यते, नैवं, सिद्धान्ते हि अवधेः शक्तिविषयो निर्दिश्यते, कोऽर्थः । यदि रूपिद्रव्याणि तावत्खण्डपर्यन्तमलोकेऽप्यभविष्यस्तदाऽवधिज्ञानी तान्यप्यज्ञास्यदिति । (अ०१ सू०२३)
३९. (मनःपर्ययज्ञान) मनःपर्ययज्ञानं मनःपर्यायज्ञानं मनःपर्यवज्ञानमित्यनर्थान्तरम् ।
४०. (प्रतिपतति) - अतः कारणादेव धूमप्रभानरकाद्विकलेन्द्रियेभ्यश्च विपुलमतयो न समागच्छन्ति मुक्तियोग्यत्वात् । न हि खलु द्वित्रिचतुरिन्द्रिययोनितः पञ्चमादिनरकावनितश्च निर्गता नराः सिद्ध्यन्ति । ऋजुमतयस्तु तेभ्योऽप्यागच्छन्ति, मुक्तिगमनविकलत्वात्तेषाम् । कोऽर्थः ऋजुमतयोऽपार्धपुद्गलपरावर्तसंसारिणोऽपि भवन्ति । विपुलास्तु चरमदेहा एवेति ॥

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604