Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
પરિશિષ્ટ-૨
चानर्थान्तरम् । यदि च द्रव्यतः पर्याया अभिन्नास्तर्हि विशेषावबोधो ज्ञानम् । सामान्यावबोधश्च दर्शनमित्येतद्द्वयमप्येकसमये कथं न श्रद्धीयेतेत्याशयः । इह मा केऽपि भ्रमन्नसत्यविषयिणि दुर्वा । यतः
૫૭૭
"तवोपयोगौ युगपत्कदापि न भो ! र्भवेतां यदमू स्वभावतः । सदापि सामान्यविशेषयोरतो, जगाद भेदं भूवि नैगमो नयः ॥१॥" " समीक्ष्यसेऽतोऽत्र परापलापिनं, विदुस्तदाभासममर्मवेदिनम् । पृथक्प्रवृत्तावपि तावनारतं, यदेकसम्यक्त्वकलाविशालितौ ॥२॥” इति । सम्यग्दर्शनविटपनिबद्धयोर्ज्ञानदर्शनपत्रयोर्न कान्तशो भिन्नतेत्यर्थः । किमुक्तं भवति य एव भावा स्वरूपतः केवलज्ञानेन विषयीक्रियन्ते त एवाऽवगाहनातः केवलदर्शनेन विलोक्यन्ते । स्वरूपविषयं हि ज्ञानम् । अवगाहनाविषयं च दर्शनम् । एवावता ज्ञानतः सर्वेषामप्यवगाहना न हि निर्धार्यते, दर्शनतश्च स्वरूपमिति अत एव तयोः साकारनिराकारताक्रमप्रोक्तिः । “सङ्ग्रहः स्माह” अनाद्यनन्ता जीवादय इति । तत: सङ्ग्रहाभासो व्यचिन्तयत् - पर्याया इह खलु ये क्षणक्षयिणस्तेषामभाव एव निश्चीयते, द्रव्यत्वस्यैव कृतार्थत्वादिति असावपि न सत्कार्यः । कथमन्यथा कालत्रयकल्पना समुचितेति । " व्यवहारेण भणितं " - यत्र यत्र नयनेन्द्रियस्य गोचरत्वं स स लोक इति, ततस्तदाभासोऽब्रवीत् "एतावानेव लोकोऽयं, यावानिन्द्रियगोचर" इति । अयमपि महामूढः, यत एतावानिति पदश्रवणाद्बहवो विचारे पतन्ति भरतक्षेत्रमेवेदं लोको नान्य इति । तदा च देवनारकादीनामसंभवश्चेष्टते, स च प्रत्युक्षदुष्टः, अतो लोकस्य रज्जुचतुर्दशकप्रमाणता ज्ञेया ॥
-
"ऋजुसूत्रो जगाद " वर्तनाभिमता विश्वपदार्था इति । तत ऋजुसूत्राभासो विमर्शवर्तमानसमयविषयमेव सत्यम्, इतरत्पुनरिन्द्रजालमिति । एषोऽपि पापीयान्, कथमन्यथा ज्ञानदर्शनाभ्यामतीतानागतवार्ता यथावदुपलभ्यत इति । अतीतानागतयोर्यस्मात् कथञ्चिन्नाशानुत्पादौ स्त:, असत्त्वमस्तीत्यर्थः । कथंचिच्च तद्वैपरीत्यं सत्त्वमप्यस्तीति स्याद्वादात् । “साम्प्रतशब्दः प्राह” अर्हन् खलु य स तीर्थकरादिपर्यायवानपीति । ततस्तदाभासोऽस्मार्षीत् । अर्हच्छब्दपर्याय एव तीर्थकरशब्दपर्याय इति । असावपि बालिशत्वं पठति यतः, कथमन्यथा 'अर्हं पूजायामि' ति धातुप्रयोगाद्विश्वत्रितयविनिर्मितपूजामर्हतीत्यर्हन्, तीर्थं चतुर्विधसङ्घ करोति निष्पादयतीति तीर्थंकर ि पृथक् पृथक् प्रयुज्यते, पूजाग्रहणप्रवचनसम्पादनपर्यायाणां कथञ्चिद्भिन्नत्वात् । न खलु परमपूज्यताज्ञापनेन तीर्थस्य कर्तुत्वज्ञापनमेकान्तशो लभ्यत इति । "समभिरूढो ब्रूते स्म " अर्हत्तीर्थकरशब्दौ भिन्नावे, भिन्नार्थत्वादिति, ततः समभिरूढाभासश्चिन्तयति स्म यः कश्चिदर्हन् सोऽन्य एव, यश्चापि कश्चित्तीर्थकरः सोऽप्यन्य एवेति । असौ जाल्मशेखरोऽपि परिहरणीयः । पर्यायाणां मिथो भेदेऽपि द्रव्यतस्तेषामेकत्वात् । "एवंभूतोऽथ व्याचष्टे" "अर्हणामधिगच्छन्नेवार्हन्नित्युच्यते । तदा तदाभासेन विचारितं ह्यः श्वोवा
I

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604