Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
તત્ત્વાર્થાધિગમ સૂત્ર
केवलित्वानुत्यादात् परं न हि मोहः केवलज्ञानावरणमिति वक्तुमुचितो भवतीति, अन्यथा अनन्तानुबन्ध्युदयविरहिते मिश्रगुणस्थाने सम्यग्दर्शनमेव चेष्टेत, सासादनगुणे च मिथ्यात्वमेव चेष्टेत, न च तथा श्रूयते, सम्भवति वा, तस्मादनन्तानुबन्धिचतुष्टयं चारित्रावरणमास्ते न पुनः सम्यगा(क्त्वा)वरणम् ॥ (अ०१ सू०७)
૫૭૨
२२. “गत्यादिद्वारे सद्भूतप्ररूपणा" सद्भूतप्ररूपणेति गतिः पञ्चधा । तत्र पञ्चस्वपि सम्यक्त्वं लभ्यते, पञ्चमी त्विह सिद्धिरिति १ । इन्द्रियाणि पञ्च, तत्र पञ्चेन्द्रियाणामेव सम्यक्त्वं, विकलेन्द्रियास्तु सास्वादनापेक्षया कदाचित्सम्यक्त्विनः २ । कायाः पृथिव्यप्तेजोवायुवनत्रसाः । इह त्रसा एव सम्यक्त्ववन्तः ३ | योगा पञ्चदश, तद्यथा सत्यमनः, असत्यमनः, सत्यासत्यमनः, पर्यायसत्यमनः । एवं वचोपि चतुष्प्रकारम् । तथा औदारिकमौदारिकमिश्रं वैक्रियं वैक्रियमिश्रमाहारकमाहारकमिश्रं कार्मणमिति । तत्र सर्वेष्वपि सम्यक्त्वं लभ्यते ४ । कषायाः पञ्चविंशतिः, तत्रानन्तानुबन्धिचतुष्कवर्जं सम्यक्त्वे स्यात् । सास्वादनं तु सर्वकषायेषु ५ । वेदाः । पुंस्त्रीषण्ढाः सर्वे ६ । लेश्याः कृष्णनीलकापोततेज:पद्मशुक्लाः सर्वा अपि द्रव्यतः । भावतस्तु प्रशस्तलेश्यात्रिकं ७ । सम्यक्त्वद्वारे तत्प्रतिपक्षमिथ्यात्वमिश्रभेदौ बहिः कार्यों, विशेषावबोधाय सास्वादनं तु ग्राह्यम् ८ । ज्ञानद्वारे अज्ञानत्रयं प्रतिपक्षत्वात् त्याज्यं ९ । चारित्रद्वारेऽसंयमः संयमासंयमश्चापि ग्राह्यः १० | आहारका अनाहारकाश्च सम्यक्त्विनः ११ । उपयोगद्वारे अज्ञानत्यागः १२ ॥
२३. " सम्यग्दर्शनम् " एतेन छद्मस्थसम्यक्त्वं सर्वज्ञसम्यक्त्वमित्याह ॥ ( अ०१ सू०८) २४. “ज्ञानं” ज्ञानमित्येकवचनं मूलतो ज्ञानैकताज्ञापकम् ॥ (अ०१ सू०९)
२५. “परोक्ष” इह “अक्षोटि व्याप्तौ " अक्ष्णुते ज्ञानेन विश्वं व्याप्नोतीत्यक्षो जीवस्तस्मात्परं परोक्षमिन्द्रियजनितज्ञानमित्यर्थः । एतेन नेत्रविषयस्यापि परमार्थतः परोक्षताऽवगम्या । कथमन्यथा सर्वदाप्यष्टशतयोजनोपरि चरन् सूर्यः समुद्रमनमध्यवर्तनास्तमयनवेलासु नेत्राभ्यामध उच्चैरधश्च विलोक्य: । (अ. १ सू. ११)
२६. “प्रत्यक्षपरोक्षे” इति । परोक्षप्रत्यक्षयोः को विशेष इत्यत्रोच्यते - परोक्षज्ञानी स्वतः परतो वर्तमानं परत एव विलोकयति । प्रत्यक्षज्ञानी तु स्वस्मिन्नेवेति । यथा हि दूरस्थाः पर्वता दर्पणमध्ये प्रतिबिम्ब्यन्ते यथारूपाः । एवमात्मनः स्वरूपमध्यग एव वस्तुप्रतिभासो भवति ।
२७. “अनुमानोपमानागमार्थापत्तिसंभवाभावेति ।" पर्वतोऽयं वह्निमानिति अत्र धूमवत्त्वात्, धूमं दृष्ट्वाऽग्नेरुपलब्धिरनुमानमेवमन्यत्रापि १ । सरः समुद्र इव भरितमस्तीत्युपमानं, यतोऽत्र सरोवर्णनयाऽब्धेर्जलनिधि - तत्त्वोपलब्धिः २। आगमः शास्त्रं ३ । अर्थापत्तिरदृष्टवस्तुनोऽर्थोपलब्धिः ४ । स्त्रीणां गर्भः संभव: ५ । पुंसां गर्भो नेति तु अभाव: ६ एवम् । (अ० १ सू०१२)

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604