Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
તત્ત્વાર્થાધિગમ સૂત્ર
६. “ कृतसामायिकेति” । करेमि सामाइयं इत्याद्युच्चार्येत्यर्थः, अत्र 'भन्ते' इति पदं भगवान्न भणति । 'भंतेत्ति न भणन्ति जीतमि 'त्यावश्यकचूर्णौ ( कारिका गा. १६)
૫૬૮
७. " सम्यक्त्वज्ञानेति" । भगवद्भाषितप्रवचनमशेषश एव श्रद्धीयते येन तदेव सम्यक्त्वं 'सव्वगयं सम्मतं ' इति वचनात् । तथा जिनवदनविनिर्गतं पदमेकं न श्रद्दधाति, शेषसकलसिद्धान्तं श्रद्दधाति, सकलसिद्धान्तं न श्रद्दधाति, पदमेकं च श्रद्दधाति, नैतत्सम्यग्दर्शनं, सर्वगतत्वव्याघातात्, यद्यदसर्वगतं तत्तन्मिथ्यात्वं, प्रमाणविरहितत्वात् । न खल्वेकप्रदेशमात्रेणाप्यूनत्वाभिगृहीताः शेषाऽसङ्ख्येयप्रदेशाः संमानिता अपि जीवस्य जीवत्वं लभन्ते, जीवादेर्द्रव्यस्वरूपत्वात्, ऊनतायां च द्रव्यत्वाऽयोगात् । तथा जीवदेशो जीवप्रदेशो वा इत्यपि न ते वक्तुं पार्यन्ते, देशप्रदेशयोरखण्डत्वाऽपेक्षयैव भवनात्, अखण्डत्वस्य च सर्वज्ञैकान्तगोचरयथास्थितत्वात् । अतो नायं जीवो नापि जीवदेशो न च जीवप्रदेशः नाप्यजीवो नाजीवदेशो नाजीवप्रदेशो वा, सिद्ध्यत्येव चैवमसतोऽपि वस्तुतावादः, स चानन्तभवपरम्परादुःखहेतुः ॥ (कारिका गा.१७)
८. " द्विविधमिति" । द्विविधमङ्गप्रविष्टानङ्गप्रविष्टभेदात्, अनेकविधं प्रकीर्णकभेदात् । स्याद्वादमहानगरस्योत्तराध्ययनप्रमुखानि प्रकीर्णकमन्दिराणीव । द्वादशविधं दृष्टिवादपर्यन्तभेदैरङ्गैः, स्याद्वादमहानगरे द्वादशाङ्गानि आवलिकामहामन्दिराणीव । यतो भण्यते च
प्रवचननगरप्रतरे, विराजमानं विचालशः सुतराम् । आवश्यकमिदमिन्द्र- कमन्दिरसदृशं चिरं जयति ।।१।। निष्पणतत्त्वसमुच्चयनयगमरत्नातिपूरितं परितः । तत्रतनावलिकागृहगणमिव गणिपिटकमभिवन्दे ॥२॥ तस्य सदाप्यवकीर्णक-सदनसरूपाननेकसंख्याकान् । भृशकमुपा समयानुत्कालिककालिकप्रभिदा ||३|| इति ॥ ( कारिका गा. १९)
९. प्रति “चिक्रमिषेदिति" । प्रतिक्रमितुमिच्छेदिति प्रतिचिक्रमिषेत् । ( कारिका गा. २५) १०. " नर्ते " इति । विनार्थे ऋते इत्यव्ययं ततः पञ्चमी ।
११. " प्रवक्ष्यामीति" उमास्वातिवाचका एवमाहु:, (का.गा.३९)
१२. “सम्यग्दर्शनमिति” । दर्शन द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यतश्चक्षुरचक्षुरवधिकेवलानि, भावतस्तु सम्यक्त्वमित्येतदत्र गृह्यते ॥ " चक्रद्वयवच्छकटस्य" । न हि खल्वेकेनैव चक्रेण शकटे गमनव्यवहारः । त्रयाणां ग्रहणमिति । ननु ज्ञानसम्यक्त्वयोः कः प्रतिविशेष इति अत्रोच्यते - सम्यक्त्वं खलु कथञ्चिज्ज्ञानमेवाऽऽस्ते, कथंचिच्च तद्भिन्नमिति अपक्वेक्षुरससमानं हि ज्ञानं, तदेव चाऽग्निपक्वतुल्यं दर्शनम् । न च पक्वेक्षुरसस्य अपक्वेक्षुरसस्य स्वादापेक्षयापि मिथः समानतेति वक्तुं पार्यते, तस्मादपक्वतः सकाशात्पक्वस्यानन्तगुणमधुरत्वात् । ननु ज्ञानस्यावरणं ज्ञानावरणीयं कर्म भवति, सम्यक्त्वस्य तु दर्शनमोह एव वर्तते, तत्कथं भवानेतद् ब्रूते ज्ञानसम्यक्त्वयोरैक्यमपीति चेत् । श्रूयतां

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604