Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 580
________________ પરિશિષ્ટ-૨ ૫૬૭ “ज्ञानादर्शनचारित्रोपचार" इति । अत्र दर्शनस्य प्राथम्यं न कृतम् । " आमुहूर्तात्" इति । अत्र सर्वस्यापि ध्यानस्य नाधिकं स्थितिर्ज्ञापिता । "उपशान्तक्षीणकषाययोश्च" इति । अत्र पूर्वधरापराणां श्रेणिद्वये धर्म्यं ध्यानं ज्ञापितम् । “तत् त्र्येककाययोगायोगानाम्" इति अत्र चरमदशात ऋते केवलिनो ध्यानरहिता: । क्षेत्रकालगतिलिङ्गादिसूत्रे स्त्रीलिङ्गिनामपि मुक्तिः । इत्यतो नमस्तीर्थाय ॥ नमोऽस्तु वाचकमुख्यायेति मुख्यत्वं च उमास्वातेः पूर्वगतकियद्दूराध्येतृत्वात्, तथा चोक्तम्,-निरन्तरमपि त्रिजगज्जनराजीवराजीप्रबोधकरणैकतानाय तीर्थकरमहामार्तण्डाय ॥ पसमरइपमुहपयरणपंचसया सक्कया कया जेहिं । पुव्वगयवायगाणं तेसिमुमासाईनामाणं ॥ १ ॥ पडिहयपडिवक्खाणं पयडीकयपणयपाणिसुक्खाणं । पणमामि पायपमं विहिणा विणएण निच्छउमं ॥२॥ इति । पूर्वगताऽवस्थानं च चरमपरमेश्वरनिर्वाणाद्वर्षसहस्त्रं यावदासीद्भगवत्यङ्गवचनप्रामाण्यात् ॥ ( कारिका गाथा १ ) २. " अधमतम" इति षोढा मनुष्या यथाऽधमतमो [अधमो] विमध्यमो मध्यम उत्तम उत्तमोत्तम इति । तत्राऽतिशयेनाऽधमोऽधमतमो लोकद्वयफलविराधको वागुरिकादिवत् । अधमस्त्विह । लोकस्याराधको भवान्तरविराधकः प्रमत्तनृपवत् । अप्राप्तो मध्यमावस्थां विमध्यम इत्युच्यते । जन्मद्वयफलाकाङ्क्षी व्यवहारिसार्थवाहवत् । मध्यमः परलोकफलाभिलाषी सांन्यासिकादिवत् । यतस्तेषां निर्जरानपेक्षं तपो भवतीति[ती]ह- आगम: "नो इहलोगट्टयाए तवमहिट्ठवि (ट्ठि)ज्जा, नो परलगाए तवमहिडवि (ट्ठि)ज्जा" इति । यद्यपि ते केचिन्मुक्त्येषिण एव वयमित्यारटन्ति, तथापि नास्ति भागनिर्जरापेक्षा इन्द्रादिपदव्या अपि मुक्तिशब्देन तेषां प्रसिद्धेः । लोकद्वयफलानभिलाषी केवलनिर्जराप्रवृत्तो ह्युत्तमो जैनचारित्रिक एव । उत्तमोत्तमस्तु श्रीतीर्थकर एवेति ॥ ( कारिका गाथा ४) ३. "तीर्थप्रवर्तनफलमिति" तीर्थकरनामप्रेरित एव भगवान्परार्थव्यसनी निष्कामं भवति ॥ (कारिका गाथा ९) ४. ज्ञातेति, ज्ञाताश्च ते इक्ष्वाकवः अत्रापत्यार्थोत्पन्नाऽण्प्रत्यपलोपः । "नायाणं खत्तियाणमि" त्यागमः ॥ (का.गा. ११) ५. "सेन्द्रैरिति" इह लौकान्तिकानामिन्द्राभावेऽपि सम्यक्त्वसाधर्म्यात्सेन्द्रैरित्युच्यते ॥ यतः"इंदत्तं चक्कित्तं, पंचाणुत्तरविमाणवासित्तं । लोगंतियदेवत्तं, अभव्वजीवेहिं नो पत्तम्" ॥ १ ॥ इति ( कारिका गा - १४)

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604