Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 582
________________ પરિશિષ્ટ-૨ ૫૬૯ मोहावरणीयशब्दयोरर्थः क्रियते, स चैवं-मोहयति पातयतीति मोहः, तत्त्व वृणोत्याच्छादयतीति भणितं भवति । अथ विलोकय यथा सुवर्णं तदीयखानौ धूलिभिरावृतं लभ्यते, तथैव ज्ञानं ज्ञानावरणीयेन कृत्त्वाऽऽच्छादितां जीनीयाः । यथा चाग्निसंयोगतो रजःप्रणाशात्तदेवात्र स्व(ण)ताप्रसिद्धं निर्गच्छति तथैव सामग्र्या ज्ञानावरणीयपराजयतो ज्ञानावकाशः । यथा पुनः कलाकुशलस्य स्वर्णकारस्य हस्ते प्राप्तं तदेव तथाभूतैः कैश्चित्सुश्लिष्टभास्वरताहैतुभिः शस्त्रैः स्पष्टालङ्कारत्वविभासमानं भवति, तद्वत्तदेवाऽनन्तगुणविशुद्धपर्ययं भूत्वा सम्यक्त्वं दर्शनं रूचिर्दीप्तिर्दृष्टिदृक् श्रद्धानमास्तिक्यमित्येवमादिभिःकृत्वा शब्दान्तरितं स्यात् । न च दीप्तिभिन्नैवाऽभिन्नैव वेति वक्तुं पार्यते । भिन्ना यदि सुवर्णाद्दवीयसी स्यात्, न च तथा पश्यामः । अभिन्ना यदि, सूवर्णताप्राकट्यादेवाऽसौ युज्यते, न च रजोविरहमात्रेणैव दीप्ति प्रतीमः, अत एव दर्शनमोहो ज्ञानप्रतिष्ठितदर्शनस्य विशदताया इति यावत्पातयिता मन्तव्यः । आवरणं तु वस्तुतः प्रभायाः सुवर्णप्रतिष्ठितत्वाद्धूलिरेव, न पुनः शस्त्रविशेषानवाप्तिरिति । किश्चान्यत्-पृथिव्युदरखनितपाषाणवज्ज्ञानं तदेव चातिसुश्लिष्टभास्वरतुल्यं दर्शनम्, तदेव टंकादिसुघटितार्हत्प्रतिमासमानं चारित्रं, तस्य एव प्रतिष्ठाविभूतिवदर्हद्धर्मवेषः, स च सुतरां प्रणिपत्यः । अथवा कूपनिर्यातजलवज्ञानम् । तदेव निर्विषतुल्यं दर्शनमित्यादि । “नादसणस्स नाणं नाणेण विणा न हुंति चरणगुणा । अगुणस्स नत्थि माक्खो, नत्थि अमोक्खस्स निव्वाणं ॥१॥" इत्यागमाद् (प्रथम अध्याय सूत्र० १) १३. "तत्त्वमिति" जीवाजीवादयः सर्वे एव पदार्था ज्ञाताः सन्तस्तत्त्वं भवति । न च केवलं जीवमात्रश्रद्धानतः सम्यक्त्वं स्यात्, नाप्यजीवमात्रश्रद्धानतः, एवं सर्वत्र योजना, किन्तु भगवत्प्रणीतसर्वश्रद्धानमेव सम्यक्त्वम् । ततः एकवचनं तत्त्वमिति । तथा अमीषामेव सप्तानां नवसंख्याकत्वमपि नयवादान्तरेणाऽऽस्ते । यदाहुः- "जीवाजीवा पुण्णं, पावासवसंवरा य निज्जरणा । बन्धो मुक्खो य तहा, नव तत्ता हुंति नायव्वा ॥१॥" इति । अत्राश्रवतत्त्वं जलरूपम्, बन्धतत्त्वं बीजरूपम्, पुण्यपापे च शाखारूपे, न च बीजतः सकाशाच्छाखा भिन्नैवाऽभिन्नैव वेति वक्तुं पार्यते । भिन्नैव यदि, बीजमन्तरेणापि शाखाप्रादुर्भावः स्याद्, न चैवं विलोकयामः । अथाभिन्ना, तदा युगपदेव बीजशाखे भवतः, नैवमपि पश्यामः । बीजवपनकालादङ्कुरादिनिर्गमकालस्याऽन्यत्वात् । न च वाच्यं बन्धः प्रकृतिस्थित्यनुभावप्रदेश-भेदाच्चतुष्प्रकारस्तदा भूयोऽपि पुण्यपापयोः कः प्रतिविशेष इति । अत्रोच्यतेबन्धनं बन्धः कर्मणोऽनभ्युदयसमय एव, तदपेक्षया मनुष्यतिरश्चामपि बद्धदेवत्वानां देवतात्वसंभवः, पुण्यतत्त्वमपेक्ष्यते तदा स्पष्टोदितदेवगतिनामकर्माण एव देवत्ववक्तव्या भवन्ति । अथ कर्तृकरणयोरैक्योपचारात्रीण्येव तत्त्वानि स्युः ज्ञेयहेयोपादेयभेदानि ॥ यदुक्तं

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604