Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 423
________________ सूत्र 31 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 397 द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, कदाचिद् द्रव्यं विवक्ष्यते, न पर्यायः, कदाचित पर्यायो विवक्ष्यते, न द्रव्यम्, उभयं नु सम्भवति, त्वयाऽप्येककालयोरेव प्रतिवन्ध्यप्रतिबन्धकभावोऽभ्युपेयते, अन्यथा स एव न स्यात् प्रतिवन्धः, अतो न कश्चिद् विरोधः। सदसतोर्नित्यानित्ययोर्वा भिक्षुवरधर्मकीर्तिनापि विरोध उक्तः प्रमाणविनिश्चयादौ स पुनरयं विरोधः कथं गम्यते, कचिदविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिर्भवति, यथा शीतोष्णस्पर्शयोरसहावस्थानम्, अन्योन्यपरिहारस्थितिलक्षणतया वा विरोधो नित्यानित्यवत् . अन्योन्यं परस्परं व्यवच्छेदः-परिहारस्तेनान्योन्यपरिहारेण स्थितिधर्मकीर्तिमतखण्डनम् लक्षणोऽन्योन्यव्यवच्छेदरूपः, परस्परपरिहारस्थितिलक्षणतया च विरो धिनोनित्यनित्ययोरेकपरिग्रहोऽपरत्यागनान्तरीयकः एकत्यागोऽप्यपरपरिग्रहाविनाभावी, तथा भावाभावयोरेकत्राभावः, एष च प्रतियोगिव्यवच्छेदरूपः सामयिकोऽसहावस्थानभेद एव, पूर्वकस्तु शीतोष्णस्पर्शयोश्छायातपयोः प्रकाशतमसोश्च दृश्यात्मनोः परिनिष्पन्नयोरेकत्राभावादनुपलब्धिलक्षण इत्येतावान् विशेष इति / अत्रोच्यते-तार्किकापशब्देन न किञ्चिदत्रातिरिक्तमपदिष्टम् // यदप्यपादेशि तदप्यसमीचीनम्, यतोऽसहावस्थानलक्षण एव विरोधो द्विधा कल्प्यते, नामैव च लक्षणं, न सहावस्थानं लक्षणं यस्य विरोधस्येत्यनेनैव शीतोष्णस्पर्शयोरिव नित्यानित्यविरोधस्यापि सङ्गृहीतत्वाद् भेदेनाभिधाने प्रयोजनाभावाद् दुर्विदग्धतामात्रमेवावशिष्यते भिक्षुवरस्य / स्यादियमारेका, दृश्यपरिनिष्पन्नयोः प्राच्यः, इतरः परिकल्पितरूपयोः स्वसामान्यलक्षणविषयत्वेन भेदप्रकाशनमिति, एतदप्यसङ्गतम्, स्वलक्षणभेदानामानन्त्यात् परिकल्पबहुत्वाच कुतो द्वैविध्यम् / अपिच नित्यता भवतु परिकल्पः, अनित्यता पुनः संस्कृतलक्षणम्, " उत्पत्तिः स्थितिर्जराऽनित्यते"ति वचनात् / दिग्नागेनाप्युक्तम्, “नित्यसमायां जातौ स एव तु भावोऽभूत्वा भवन् भूत्वा वाऽभवन्ननित्य इत्युच्यते, सा चावस्था भावप्रत्ययेनानित्यते"ति, एवं च न नित्यानित्ययोः सामान्यलक्षणयोविरोधः, नापि स्वलक्षणासामान्यलक्षणयोः, स्वलक्षणोपादानत्वात् सामान्यलक्षणस्य, परिकल्पितयोश्च खरतुरगविषाणयोर्विरोध इत्यद्भतमपश्यद् भिक्षुवरः, तस्मात् स्वलक्षणविषय एव विरोधोऽस्तु, तत्रापि न स्वलक्षणमित्येव विरोधः, किन्तु द्रव्याणां द्विविधाः पर्यायाःक्रमभुवः सहभुवश्च, युगपदवस्थायिनोऽयुगपदवस्थायिनश्च, सूक्ष्माः स्थूलाच, साध्याः साधनानि चे, व्यापृताश्चाव्यामृताश्च, यथा घटे सद्रव्यमूतोचेतनरूपरसगन्धस्पशेसङ्ख्यासं 1 लक्षणाऽन्योन्यव्यवच्छेदरूपाः ' इति क-ख-पाठः। 2 स्पर्शयोर्नित्यानित्य ' इति क-ख-पाठ / 3 नित्यमित्युक्तेऽनित्यतापरिहारस्यावश्यकत्वात् शीतोष्णसमानता तत्त्वतस्तु अवयवभेदेन कालादिभेदेन वा न क्वापि विरोधः। 'वा' इति क-पाठः।

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514