Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 424 तत्वााधिगममत्रम् (अध्यायः 5 सूत्रम्---द्रयधिकादिगुणानां तु // 5-35 // भा०-द्वयधिकादिगुणानां तु सदृशानां बन्धो भवति / टी-यधिकादिगुणानां तु सदृशानां बन्धो भवतीत्यादि भाष्यम् / द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते घधिकादिगुणाः / गुणशब्दोऽत्र गुणिवचनः / गुणवन्तो गुणाः परमाणव इत्यर्थः / तेषां व्यधिकादिगुणानामनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्य रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् / / भा०-तद्यथा-स्निग्धस्य द्विगुणाधिकस्निग्धेन , द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाधिकरुक्षस्य एकगुण. रूक्षण, एकादिगुणाधिकयोस्तु सदृशयोवन्धो न भवति / अत्र तुशब्दो व्यावृत्ति विशेषणार्थः, प्रतिषेध व्यावर्तयति बन्धं च विशेषयति // 35 // ___टी-तद्यथा-स्निग्धस्थेत्यादिनोदाहरति / [एकगुण]स्निग्धस्येत्यनुक्तेऽपि सङ्ख्या गम्यते गुणश्च सामर्थ्यात्, द्विगुणाद्यधिकस्निग्धेनाणुना, द्वाभ्यां स्नेहगुणविशेषाभ्यामेकगुणस्निग्धादधिको यस्तेन सहास्ति बन्धः, यथैकगुणस्निग्ध एकस्तदन्यस्विगुणस्निग्धः, अत्रैकगुणस्निग्धस्यैकः समानो गुणस्त्रिगुणस्निग्धे (स्कन्धे) अणौ वा शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपञ्चगुणस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह बन्धसम्भवः। ननु च प्रथमविकल्पान्नास्ति कश्चिद विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद् भेदः, तथापि तु बन्धो यादिवृत्तिः, तत्र बध्यमानयोर्वध्यमानानां वा षष्ठयन्तत्वे तृतीयान्तत्वे वा बन्धाविशेष इति प्रतिपत्यर्थमुभयथोचारणं चकार भाष्यकारः॥ रूक्षस्यापीत्यादिभाष्यमुक्ताप्रकारेणैव गमनीयम् , एवं व्यधिकादिगुणानां स्नेहवतां रोक्ष्यवां च यथोक्तलक्षणो बन्धो भवतीत्युच्यते, प्रतिपधन्यावृत्तिप्रदर्शनार्थ भवति तुशब्दोपादानम् / म्यधिकादिगुणानां बन्धाभ्यनुज्ञाने चार्थापत्तिलभ्यफलप्रदर्शनार्थमिदमाह----एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति, प्रतिविशिष्टपरिणतिशक्तेरभावात् , एकगुणस्निग्धस्य हि द्विगुणस्निग्धोऽणुरेकगुणाधिकः, द्विगुणस्निग्धस्य त्रिगुणस्निग्ध एकगुणाधिकः, त्रिगुणस्निग्धस्य चतुर्गुणस्निग्ध एकाधिक इत्यादि यावदनन्तगुण एकाधिक इति, एवं रूक्षस्यापि वाच्यम्, एकादिगुणाधिकयोरित्यत्रादिग्रहणाद् द्विगुणस्य त्रिगुणेन सह नास्ति बन्धः, तत्रापि द्विगुणश्चैकगुणाधिकश्चेति द्विवचनम्, एवं शेषविकल्पयोजनमपि कार्यम्, तुशब्दः कैमर्थक्यात मुत्र इत्याङ्किते भाष्यवहाह-अत्र तुशब्दो व्यावृत्तिविशेषणार्थः // तुशब्दस्यानेका र्थवृत्तित्वे सत्यप्यत्र सूत्रे व्यावृत्तिविशेषणं चोभयमर्थः परिगृह्यते, व्यावृत्तिश्च विशेषणं च व्या. वृत्तिविशेषणे अर्थस्ते यस्य स तथोक्तः, तत्र व्यावृत्तिः-निवृत्तिः, विशेष्यतेऽनेनेति विशेषणं, तदर्थो यस्यासौ व्यावृत्तिविशेषणार्थः, कस्य पुनावृत्तिः किं वा विशेष्यमाणमित्याह-प्रतिषेध
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514