Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 448
________________ 422 आचार्याधिगमसूत्रम् [ अध्यायः 5 स्निग्धैश्च रूक्षाणां परस्परेण बन्धो भवति इति, अर्थापत्तिलभ्योऽयमर्थः सामर्थ्यादवगम्यते, स च यादृशो यथा च भवति तं तादृशं तथा वक्ष्यामः, इदैनावदुपयुज्यत इति // 33 // भा०-अत्राह-उक्तं भवता-जवन्यजुगवर्जानां (स्निग्धानां) रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति / अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति / अत्रोच्यते-न जवन्यगुणानामित्यधिकृत्येमुच्यते--- टी० ---अवाहेत्यादिना ग्रन्थेन सम्बन्ध विधने / प्रतिपादितं भवताऽनन्तरं जवन्यगुणस्निग्धरूक्षयोर्नास्ति बन्धः, तनिषेधादन्येषां जवन्यगुणवानां बन्धप्रसङ्गे सदृशानां प्रतिषेधे यत्नो विधेय इत्यापत्तिप्रापितं चेदं द्विगुणनिन्धस्यैकगुणरूक्षेण सह एकगुणस्निग्धस्य द्विगुणरूक्षेण सह बन्धो भवतीति / एतदुक्तं भवति-निकृष्टस्निग्धरूक्षयोबन्धप्रतिषेधान्म-. ध्यमोत्कृष्टस्निग्धरूक्षगुणानां परस्परेण बन्धः प्रतिज्ञातोऽर्थतः पृथगधिकरणानाम् / अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति प्रश्नयति, प्रस्तुतानन्तरवचनोऽयमथशब्दः, तुल्यगुणयोः स्निग्धाधिकरणयोरेकैकगुणयोः किमेकान्तेनैव प्रतिषेध इति प्रश्ने कृते अबोच्यत इत्याह / अत्यन्तप्रतिषेध एव, काधिकृत इति चेदित्याह, न जवन्यगुणानामित्यधिकृत्येदमुच्यते, यथैव स्निग्धरूक्षाणां जघन्यविषयाणां बन्धाभावस्तथैव गुणसाम्ये सदृशानां बन्धाभाव इति सम्बन्धनीयम् / अथवा स्निग्धरूक्षयोर्मिनाधिकरणयोर्बन्धप्रतिषेधः कृतोऽथ तुल्यगुणयोः किं प्रतिपत्तव्यमिति सामादध्याहारं कृत्वा व्याख्येयम् , तुल्यगुणयोः स्निग्धाधिकरणयो रूक्षाधिकरणयोर्वा किं बन्धनिषेधः प्रतिपत्तव्यः, आहोस्विद् बन्धविधिरिति ? / आचार्य आह-अत्यन्तप्रतिषेध इति, एकान्तेनैव प्रतिषेधः, स पुनने जघन्यगुणानामित्यत्र सूत्रे. ऽधिकृतस्तमाश्रित्योच्यते सूत्रम्-गुणसाम्ये सदृशानाम् // 5-34 // टी०-अथवा स्निग्धरूक्षगुणः / / भा०-गुणसाम्ये सति सदृशानां बन्धो न भवति / तद्यथा-तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन, तुल्यगुणस्क्षस्य तुल्यगुणरूक्षेणेति // टी०-गुणसाम्ये सतीत्यादि भाष्यम् / गुणाः-स्निग्धरूक्षास्तेषां समता साम्यं तस्मिन् गुणसाम्ये, सतीत्यनेन विशिष्टार्थी सप्तमी सूचयति, “यस्य च भावेन भावलक्षणम्" (पा०अ०२, पा०३,०३७)इति निमित्तसप्तम्येपा, सति गुणसाम्ये तुल्यसङ्ख्यत्वे सदृशाना बन्धो न भ. वति, गुणानां साम्येन ये सदृशाः, न क्रियासाम्येन, ते सति गुणसाम्ये सदृशास्तेषां बन्धो नास्ति, पूर्वापवादविशेषसमर्थनार्थमेवेदं-न जघन्यगुणानाम् (सू० 33) इत्यभिधाय तद्विशेषमपवदते, . तं चापोद्यमानमुदाहरणेन स्पष्टयति / तद् यथेत्युदाहरणोपन्यासः, तुल्यगुणस्निग्धस्य तुल्य. गुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति सामान्योपन्यासः समस्तैकगुणस्निग्ध

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514