Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 454
________________ 428 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 टी-गुणान् लक्षणतो वक्ष्याम इत्यादि भाष्यम् / सङ्ख्येयासम्व्येयानन्तसङ्गख्यया सङ्ख्यायमानत्वाद् गुणाः-शक्तिविशेषाः, त एव क्रमेण सह च भवन्तः सर्वतोमुखस्वाद् भेदाः-पर्यायास्तान गुणान् पिण्डघटकपालादीन रूपादींच, लक्षणतः असाधारणशक्तिविशेषात्, अभिधास्यामः (सू० 40)-" द्रव्याश्रया निर्गुणा गुणाः " इत्यत्र, द्रव्यस्य हि गुणपर्यायाः परिणतिविशेषाः सम्भवन्ति, न तु गुणपर्यायाणां केचिदन्ये गुणपर्यायाः सन्तीत्येवं भावयिष्यामः / व्यवहारनयसमाश्रयणेन तु गुणाः पर्याया इति वा भेदेन व्यवहारः प्रवचने, युगपदवस्थायिनो गुणा रूपादयः, अयुगपदवस्थायिनः पर्यायाः, वस्तुतः पर्याया गुणा इत्यैकात्म्यम् / यत आह"दो पजवे दुगुणिए लभति उ एगाओ दवाओ" (आवश्यकनियुक्तौ गा०६४) / तथा-' "तं तह जाणाति जिणो, अपज्जवे जाणणा नत्थि" (आव०नि० गा० 194) / तथा" देवप्पभवा य गुणा न गुणप्पभवाई दव्वाइं" ( आव०नि० गा० 193) / एवमेकमेवेदमिति मन्यमान आह-भावान्तरं संज्ञान्तरं च पर्यायः,भावादन्यो भावो भावान्तरम्, समभिरूढनयाभिप्रायेणेन्दनशकनपूदोरणादयोऽर्थविशेषा रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणां प्रवृत्तौ निमित्तभूताः,संज्ञान्तरं चेन्द्रशक्रपुरन्दररूपादि, एवमर्थभेदाः संज्ञाभेदाश्च गु. णपर्याया निश्चीयन्त इति, तदेतदुभयं व्यवहारनिश्चयात्मकं गुणशब्दाभिधेयं पर्यायशब्दाभिधेयं च यत्र-यस्मिन् स्थित्यंशे विद्यते-सामान्यलक्षणेऽस्ति तद्भावलक्षणपरिणतितयाऽवस्थितलक्षणं द्रव्यमिति, अनेन चैतत् प्रतिपाद्यते-द्रव्यं परिणामि, गुणपर्यायाः परिणामाः प्रसवव्ययल. क्षणा इति / एतदेव स्पष्टयति-गुणपर्याया इत्यादिना। उक्ताः प्रथमं गुणपर्यायाः, अस्यास्मिन् वा विद्यन्त इति मत्वर्थमुपलक्षयति, अस्यैते रूपादयः पिण्डादयश्च तद्भावलक्षणपरिणामाः सन्ति, न जातुचिनिष्परिणाम द्रव्यमुपतिष्ठते, विकारलक्षणा चेयं षष्ठी, यवानां धाना इति यथा, यवास्तु द्रव्यत्वसत्त्वमूर्ताद्यपरित्यजन्त एव धानाकारेण विक्रियन्ते, न च विकारोऽत्यन्तमेव प्रकृतेर्भेदेन वर्तते, तदन्वयवद् दशासु सुवर्णाङ्गुलीयकादिवत्, नाप्येकान्तेन भेदः, संज्ञाप्रयोजनादिप्रतिनियमात्, तथा कदाचित् परिणामिपरिणामयोराधाराधेय विवेक्षायां व्यावहारिक्यां भेदप्रधानायामस्मिन् परिणामिनि स्थित्यंशे रूपादिपिण्डादयः परिणामाः सन्ति भेदान्तरकल्पनया, तथाऽऽत्मनि चैतन्यम्, आत्मा तु ज्ञानाद्याकारेण परिणममानोऽसत्यपि भेदे १'द्वौ पर्यवौ द्विगुणितौ लभते तु एकस्मिन् द्रव्ये। 2 तत् तथा जानाति जिनः अपर्यवे ज्ञानं नास्ति / 3 द्रव्यप्रभवाश्च गुणा, न गुणप्रभवाणि द्रव्याणि / 4 'विवक्षया' इति क-पाठः।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514