Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ स्त्रं 38 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् द्यपर्यवसानानन्तसङ्ख्यपरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्य विशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात् सामान्यपरमार्थ एव, अतः सन्नेव न कदाचिदप्यसन् , स एव ह्यःप्रभृतिपर्यायैरुत्पादव्ययस्वभावैः प्रतिपर्यायमाघातस्वरूपत्वादाविर्भावतिरोभावावनुभवन् विनाशीति, तद्यथा-श्वोभावेन विनश्याद्यत्वेन प्रादुर्भवति, अद्यत्वेनापि विनश्य ह्यस्त्वेनोत्पद्यते, कालत्वेन तु श्वोऽद्ययःपर्यायेषु सम्भवित्वादन्वयरूपत्वाद् ध्रुव एव, ततो य एवोत्पद्यते स एव विनश्यति द्रव्यार्थतः स एवावतिष्ठते अनन्यत्वात् सर्वदापि, तथा य एव विनश्यति स एवोत्पद्यतेऽवतिष्ठते चेत्युत्पादव्ययध्रौव्याण्येकाधिकरणानीति, न हि श्वोऽद्यादय उत्पादविनाशाः कालध्रौव्यमन्तरेण, निर्वाजत्वान्निराधारत्वात् खपुष्पवत् , नापि कालध्रौव्यं यःप्रभृत्युत्पादविनाशावन्तरेण, अपरिणामित्वाद् व्योमोत्पलादिवदेव / तस्मादेवं निरूपिते वृत्तो वय॑ति च द्रव्यार्थत्वेन कालः सद्भिः स्वपोयरामृष्टो विवक्षित उपनीतोऽस्तीति भावितमेव // पर्यायार्थतया त्वत्यन्तविविक्तरूपत्वात पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि वय॑न्निति, तेन प्रकारेणासत्त्वम् / अतः स्यात् सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् सन् गुणपर्यायवांश्च कालः , एष च निर्वतकहेतोः कर्मणः कालोऽपेक्षाकारणं मनुष्यलोके प्रत्यक्षलिङ्गः, तानि च लिङ्गानि प्रतिनियमवर्तीनि वर्षोष्णशीतवाताशनिहिमतडिदभ्रगर्जितोलकाङ्कुरकिसलयपत्रफलहरितप्रसूनोदयप्रवासतारानुचक्रक्रमादीनि, तथा प्रयोगोऽपि-प्रतिनियतव्ययस्थाभाविनो वर्षा दिवनस्पत्यादिपरिणामा यथास्वं परिणामिकारणव्यतिरिक्तापेक्षाकारणद्रव्यान्तरवृत्तिसापेक्षप्रादुर्भावाः, असन्ततैकरूपपरिणामत्वे सति प्रतिनियतव्यवस्थयोत्पद्यमानत्वात् , तदानीमात्मलाभत्वात् , तद्भावमापाद्यमानत्वाद् , बहिःप्रकाशापेक्षिरूपान्तरविनिश्चयाभिमुखीभूतचक्षुरिन्द्रियविज्ञानवत्, स्वसमये वा धर्माधर्मद्रव्योपकारजनितजीवपुद्गलगतिस्थितिवत् , अर्धत्तीयद्वीपव्यापित्वेऽपि समयस्य भोगभूमिषु नास्ति किञ्चित् काललिङ्गं, व्यवस्थितपरिणामत्वात, यतः सम्भवतामर्थानां स्वयं स्वभावेन कालोऽपेक्षाहेतुरुक्तः, न निवर्तक इति / एवं तबसम्भवि न लिङ्गोऽपि भोगभूमिषु यथाऽस्ति कालस्तथाऽर्धतृतीयद्वीपक्षेत्राद् बहिरपि भाववृत्त किमिति नाभ्युपगम्यते ? अपि च-वतेनं तत्रास्ति परत्वापरत्वादिकालस्यापेक्षिता लिङ्गंच, प्रत्यक्षदृश्यमानकाललिङ्गत्वाद् भरतादिक्षेत्रवत् स्यात् तत्र काल इति, अत्रोच्यते-सत्यामपि तत्र भावानां वृत्तावविशेषेण तस्याः काललिङ्गत्वाभाव इत्यसिद्धता हेतोः। नहि सर्वा वृत्तिः कालापेक्षा। यत्र तु कालस्तत्रासौ वर्तनाद्याकारेण परिणमत इति नियमः। कदाचिद् वा शङ्केत परः-बाह्यद्वीपेषु वृत्तिर्भावानां कालापेक्षा वृत्तिशब्दवाच्यस्वात् प्रयोगनिरपेक्षेहत्यचूतकुसुमवृत्तिवदिति, एतदप्ययुक्तम्, अलोको हि सम्प्रति विद्यमानत्वाद् वतेते, न च तत्र कालोऽस्तीत्यनैकान्तिकत्वात्, समयवृत्त्या वाऽनेकान्तः, __ 1 'नन्तरसंख्य ' इति क-पाठः / 2 वर्त्यति नैतेन ' इति क-पाठः / 3 ‘परव्यक्त इति प्रत्यन्तरे' इति ग-टी-पाठः / 4 'शब्दावाच्यत्वात्' इति कापाठः / 5' वाऽनैकान्तः' इति क-ख-पाठः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/26c909ba573b6db01a8dd3ae5b1bdbe178037451faec06c8697eb069d31706e7.jpg)
Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514