Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 434 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी-स चैष काल इत्यादि / स इति प्रक्रान्तपरामर्शादेप इत्यनेन सूत्रेणानुसन्धीयते कालः, चशब्दो हेतौ, यस्मादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समयपरम्परायां सख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसख्यानिरूपणायेदमाह-अनन्तसमय इति / सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत् , ततश्च परिणाम्यपि प्रदेशवत्वात् तद्वदेवेति, तति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगतृतीयद्वीपसमुद्रद्वयव्यापी ऊर्ध्वमपश्चाष्टादशंयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमसाकमेकान्ताग्रहोऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याक रणादर्पितानर्पितसिद्धेः कालतो द्रव्यतश्चापितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात , एकस्य समयस्य काल कृता देशा न सन्त्येव, यथा कालकृतदेशेरनवयव एवं द्रव्यकृतदेशेरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमतीतसमयकायें वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वय॑त्यपीत्येकसमयस्य द्रव्यता, अतः प्रदेशावयवबहुत्वात् का येव्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैनास्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपहोतुं शक्या, आगमे तु कचिद प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया। न चैकान्तेन नित्यत्वमनित्यत्वं वा युक्तमित्यलं प्रसङ्गेन। प्रकृतमुच्यतेघर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह--समयराश्योः कियती सख्येति // अतीतानागतयोस्त्वानन्त्यम् // अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्तः त्यैव, अनन्तस्य भाव आनन्त्यं-सख्याख्यो गुणः, स च न सख्येयसइख्या नासख्येयसख्येति, किं तर्हि ? अनन्तसङ्ख्यै व, तुशब्दः समुच्चये / अतीतोऽनागतश्च समयराशिरनन्त इति, सौ चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पञ्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः, सिद्धेभ्योऽतीतसमयराशिरसइनव्येयगुणः, अस्माद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वत्स्यत्समयाः, इत्येतदल्पबहुत्वमस्तिकायपञ्च( त्व एव ) कालद्रव्यस्य घटत इति // 39 // भा०-अत्राह-उक्तं( अ० 5, सू० 37) भवता-गुणपर्यायवद् द्रव्यमिति / तत्र के गुणा इति ? / अत्रोच्यते-- टी- अनाह-उत्तं भवतेत्यादिना सम्बन्धमावेदयति / द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति / 'मतीतः समय इतिक-पाट: 2 'गव्य इति क-पाठः।३'सचा' इति फ-पारः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b42f5c86a25e7f9737cd58105d43cc82a72cd7d4c4b56e15ef7c26ac054d0d8a.jpg)
Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514