Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ सूत्र 41] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 437 . भा०-धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः // 41 // स विविधः टी-धर्मादीनां द्रव्याणामित्यादि भाष्यम् / धर्मो गत्युपग्रहकल्लोकाकाशव्यापी, स आदिर्येषां तानि धर्मादीनि द्रव्याणि, आदिशब्दादधर्माकाशपुद्गलजीवकालाख्यानि, तेषां स्वो निजो भावो भूतिरात्मलाभोऽवस्थान्तरप्राप्तिः परिणामः / परिशब्दो व्याप्ती, दोषेण परीतो यथादोषेण व्याप्तः, नमिः प्रहत्वमभिधत्ते प्रहत्वमृजुत्वमवस्थान्तरप्राप्तिलक्षणं धर्मादिस्वतत्त्रं, तेन वोत्पादो विनाशश्व व्याप्तः, समस्तस्थित्यंशसामान्येनाव्याप्तो नोत्पादो नो विनाशोऽस्तीति परिणामशब्दार्थः, सेमन्ताद् भावे वा परिः, परिखनतिवत्, सर्वार्थाभिधानप्रत्ययेषु रमनमन्वयांशानुवेधः, वीप्सार्थो वा परिशब्दः, यथा वृक्षं परिसिञ्चति, वृक्षं वृक्षं सिञ्चतीत्यर्थः / एवं द्रव्यं द्रव्यं परिनमनं परिणामः, स्वमात्मनो व्यतिरेक्यपि दृष्टं गोमहिष्यजाविकादि तव्यवच्छेदार्थमाह-स्वतत्त्वमिति / तस्य भावस्तत्त्वं धर्मादेरवस्थान्तरापत्तिः, स्वं च तत् तत्त्वं चेति स्वतत्व-धर्मस्यैव निजमवस्थान्तरम्, न त्वधर्मादेरवस्थान्तरं, धर्मद्रज्यस्य परिणामः, एवमधर्मादिद्रव्याणामपि स्वस्वावस्थापत्तिः परिणामो द्रष्टव्यः, धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते स्वरूपापरित्यागेन, स्थित्युपग्रहाकारेण स्थातुरधर्मः, व्योमाऽप्यवगाहुरवगाहदायित्वेनोपजायते, पुद्गलाः शरीरशब्दादिरूपेण, आत्मा ज्ञानदर्शनोपयोगवृत्त्या नारकादिभावेन च, कालोऽपि वर्तनादिप्रपश्चन परिणमते, तथा यथोक्तानां गुणानामिति, येन प्रकारेणोक्ताः शुक्लादिघटकपालादय एकजातीयत्वेन, न भिन्नजातीयतया, गुणाः पृथक् पर्यायाश्च पृथगिति, अत एवेह पर्यायग्रहणं न कृतम् , गुणपर्याययोरेकत्वात् , तेऽपि हि शुक्लादयः कृष्णादित्वेन परिणमन्ते वर्णादिसामान्यममुश्चन्तः, कुम्भपर्यायोऽपि कपालावस्थाप्रापी मृत्स्वभावमपरित्यजन्, कपालादयोऽपि शकलशर्करापांशुत्रुटिपरमाणुरूपेणेति, परमाणवोऽपि रूपाद्यात्मना व्यणुकादिस्कन्धात्मना वेत्येवं द्रव्याणि सर्वदा सूक्ष्मस्थूलभेदोत्पादव्ययरूपेण परिणमन्ते, गुणानां च परिणामाभ्युपगमे गुणवत्त्वमथोदेवाभ्युपेतं भवतीत्यनेकान्तवादसद्भावप्ररूपणार्थमिदमेवावोचद् भाष्यकारः, अथवा क्षणिकान् पदार्थान् ये प्रतिजानते त एवमाहुः-उत्पत्तिसमनन्तर मेव ध्वंसन्ते पदार्थाः, न हेतुमपेक्षन्ते ध्वंसमानाः, स्वात्मलाभक्षणानन्तरं क्षयः विनाशः क्षण उच्यते, निरुक्तविधानात् , तद्योगात् क्षणिकमिति / आह च "क्षणोबाचेह नैरेक्तै-रुत्पन्नानन्तरं क्षयः / निर्हेतुः सोऽनपेक्षत्वात् , तद्योगात् क्षणिकं मतम् // " यथाः पयःप्रतीपादयः प्रतिक्षणमन्ये चान्ये चोत्पद्यन्ते निरवशेषपूर्वनाशसमकालम् , एवमन्येऽपि महीधादय इत्यस्य प्रतिक्षेपायेदमाह-तद्भावः परिणामः / परिणामादन्यथावं 1 'समत्वात् ' इति क-पाठः / 9 'द्रव्यं नमनं ' इति ग-पाठः / 3 ' स्वेन गुणाः ' इति क-पाठः / 4 ' क्षयः क्षण' इति ग-पाठः / 5. पत्यनन्तर इति ग-पाठः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4874e0f114c5c65579512c03c66b9a6e7f9ee804d7c282d522fe8a5ea68ce6f7.jpg)
Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514