Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ सूत्र 38] स्वोपज्ञभाष्य-टीकालङ्कृतम् 429 भेदेन व्यवन्हियते चैतन्यमात्मनीति / एवं सैव पुद्गलद्रव्यजातिः स्वरूपमजहती समासादिततत्तद्गुणविशेषरूपादिपिण्डादिव्यपदेशे हेतुरित्यतः कथञ्चिद् भेदाभेदस्वरूपं गुणपर्यायवदू द्रव्यमुच्यते, तथा धर्माधर्माकाशजीवद्रव्याण्यपि गुणपर्यायवन्ति भावयितव्यानि प्रागभिहितक्रमेण, द्रव्यं हि भव्यं योग्यं सहक्रमभुवां गुणपर्यायाणाम् , अत्र चागुरुलघुप्रभृतयः सहभुवो गुणाः, पर्यायाः क्रमभुवः, पुनगेतिस्थित्यवगाहज्ञानदशेननारकादयो गुणपयोयाः पूर्वमेव भाविता इति // 37 // ___ एवं गुणपर्यायपरिणामि द्रव्यलक्षणमिति प्रपञ्चे निर्णीते पर आशङ्कते-धर्माधर्मादीनि द्रव्याणि पश्च स्वपरिणामलक्षणगुणपर्यायात्मकानि व्यावर्णितविविधोपकाराणि प्रदर्शितानि, तत्र कालस्यापि पूर्वमुपकारो वर्णित एव वर्तनादिगुणपोयलक्षणः, स च कालो द्रव्यमित्येवं न पूर्व नाधुंना व्याख्यातः, न चोपकारकमन्तरेणोपकारः समस्ति शक्यं वक्तुम् , वर्तनादिरुपकारः सोपकारकः स्थित्यादिवदुपकारत्वात् , तत् किमयं स्मृतिप्रमोपो युष्माकं येन विविक्तोपकाराधारः कालो द्रव्यं नोक्तः ? आहोस्विद् धर्मादिद्रव्यपश्चकसाध्य एवायं वर्तनादिव्यापार इति. विरचितप्रश्ने श्रोतरि सिद्धसाध्यतोद्विभावयिषाद्वारेण सरिराहकालस्य द्रव्यत्वम् सूत्रम्-कालश्चत्येके // 5-30 // टी-विशिष्टमर्यादावच्छिन्नोर्वाधोऽर्धतृतीयद्वीपाभ्यन्तरवर्तिजीवादिद्रव्यैः परिणमद्भिः स्वत एव कल्पते गम्यते प्रथ्यतेऽपेक्ष्यते कारणतयाऽसाविति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत् , पापविरतौ वा प्रबोधवत् , चशब्दो द्रव्याकर्षणार्थः, कालश्च द्रव्यं षष्ठं भवति, इतिशब्द एवंशब्दार्थे, एवमिति युक्त्यभिधानेन प्रकारान्तरेण च न नियुक्तिकं द्रव्यत्वमाचक्षते कालस्य, एके इत्यसहायार्थ एकशब्दः, एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेकेऽनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते / एतदेव भाष्येण सोपपत्तिकं स्फुटयति भा०-एके त्वाचार्या व्याचक्षते-कालोऽपि द्रव्यमिति // 38 // - टी०-एके त्वाचार्या इत्यादिना। एके नयवाक्यान्तरप्रधाना विशेषेणाचक्षते व्यक्तीकुर्वन्ति युक्त्या, परापरप्रत्ययाभिधाने तावदत्यन्तप्रसिद्धत्वान्निनिमित्ते नाभ्युपगन्तुं शक्ये, यच्चानयोर्निमित्तं स कालः, तद्यथा-युवस्थविरयोः, सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् / अथ दृष्टोऽपरदेशयुक्ते स्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च, तथैव च परदेशसंयोगात् परस्मिन्नपि यून्यपरप्रत्ययोऽपराभिधानं च, तावेतौ व्यतिकरस्वभावावभि . 1 'सहजक्रम ' इति क-पाठः। 2 'दृष्टोऽर्वागूपर०' इति क-पाठः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/73c5d6ca97edb510c4a15d5bf00c58c5168cda6f8394b897257a18467701a7c7.jpg)
Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514